SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ५ - [ नि. १४९७ ] ति दिवसाद्यतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रात्र्यतिचारज्ञानार्थमपि, 'ठायंति उस्सग्गं' ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात्, तथाविधवैयावृत्यवदिति गाथार्थः ॥ साम्प्रतं यदुक्तं ‘दिवसातिचारज्ञानार्थ’मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह नि. ( १४९८ ) सयणासणन्नपाणे चेइय जइ सेज काय उच्चारे । समितीभावनगुत्ती वितहायरणंमि अइयारो ॥ वृ- शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति - संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, 'आसन' त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, ‘अन्नपाण’त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतिय'त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, 'जइ'थि यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्हं विनयाद्यकरणमिति, 'सेज'थि शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ स्त्रयादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे' त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चारः पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायां, 'समिति' त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चेर्यासमिति-प्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽ सेवनेऽनासेवने चेत्यादि, ‘भावने 'ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम् ‘भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥ निर्जरणलोकविस्तर धर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भवना द्वादश विशुद्धाः ॥' अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'गुत्ति' ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्त्री गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिष्विति गाथार्थः । इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराहगोसमुहनंतगाई आलोए देसिए य अइयारे । सव्वे समाणइत्ता हियए दोसे ठविज्जाहि ॥ नि. ( १४९९ ) २५७ वृ- गोषः प्रत्यूषो भण्यते, 'मुहनंतगं' मुखवस्त्रिका आदिशब्दाच्छेपोपकरणग्रहः, ततश्चैतदुक्तं भवति - गोषादारभ्य मुखवस्त्रिकादौ विषये 'आलोए देसिए व अतिचारे त्ति अवलोकयेत्निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादीनिति, ततः सव्वे समणाइत्ता' सर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति 25.17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy