________________
आवश्यक मूलसूत्रम् - २- ५ / ३९ लक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः, 'सुहुमेहिं खेलसंचालेहिं' सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्द्रव्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिट्ठिसंचालेहिं' सूक्ष्मैर्दृष्टिसञ्चारैः- निमेषादिभिः, 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गो' एवमादिभिरत्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्नः सर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभनोऽभिधीयते भवेत् मम कायोत्सर्गः कियन्तं कालं यावदित्याह
T
'जाव अरहंताणं भगवंताणं नमोक्कारेणं न पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां भगः-ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहंताणं' इत्यनेन न पारयामि न पारं गच्छामि, तावत् किमित्याह- 'ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि त्ति तावच्छब्देन कालनिर्देशमाह, कार्य- देहं स्थानेनऊर्ध्वस्थानेन तथा मौनेन वागूनिरोधलक्षणेन, तथा ध्यायनेन शुभेन, 'अप्पाणं त्ति प्राकृत शैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापकं व्युत्सृजामि - परित्यजामि इयमत्र भावना - कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराधयासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्ती नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थं तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याद्यं सूत्रावयवमधिकृत्याह कायोत्सर्गस्थानंन कार्य, प्रयोजनरहितत्वात्, तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सग्गंमि ठिओ निरेयकाओ निरुद्धवइपसरो । जाणइ सुहमेगमणो मुणि देवसियाइअइयारं || परिजाणिऊणं य जओ संमं गुरुजनपगासणेणं तु । सोहे अप्पर सो जम्हा य जिनेहिं सो भणिओ ||
२५६
(प्र.)
(प्र.)
वृ- इह च सम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमिति कृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः सन् निरजकायो-निष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः- मौनव्यवस्थितः सन् जानीते सुखमेकमना- एकाग्रचित्त, सन् कोऽसौ ? - मुनिः साधुः, किं ? दैवसिकातिचारं आदिशब्दाद्रात्रिकग्रह इति गाथार्थः । ततः किमित्याह यस्मात् कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन – गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थि तस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच- यस्माजिनैर्भगवद्भिरयं कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥
"
नि. (१४९७) काउस्सग्ग मुक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्टयाइ ठायंति उस्सग्गं ॥
वृ- यतश्चैवमतः 'काउस्सग्गं मुक्खपहदेसियं' त्ति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात् तेन मोक्षपथेन देशितः - उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊण'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International