SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-५- [नि. १४९६] २५५ भवति, कायोत्सर्ग मिति 'चिञ् चयन' अस्य धजन्तस्य 'निवाससमिति (चिति) शरीरोपसमाधानेष्वादेश्च क इति चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्यधजि उत्सर्ग इति भवति, शेषपदार्थो यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुं, कं?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः। तथेदमन्यत्तु सूत्रं मू. (३९) तस्सुत्तीरकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं । अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उडुएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ . वृ- 'तस्योत्तरीकरणेन' 'तस्येति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन ‘ठामि काउस्सग्गं'मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तच्च प्रायश्चित्तद्वारेण भवति अत आह-'पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थं वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्त्तवयायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत, प्रायश्चित्तकरणंच विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं' विशोधनं विशुद्धिः अपराधमलिनस्यात्मनः प्रक्षालनमित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानि शल्यानि-मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणांज्ञानावरणीयादीनां निर्घातार्थ-निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ?-'तिष्ठामि कायोत्सर्ग' कायस्योत्सर्गः-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीति-करोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा ? नेत्याह_ 'अन्नत्थूससिएणं'ति अन्यत्रोच्छ्रसितेन, उच्छसितं मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत् इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोर्ध्वं प्रबलं वा श्वसितमुच्छसितं तेन, 'नीससिएणं'ति अधः श्वसितं निःश्वसितं तेन निःश्वसितेन, ‘खासिएणं ति कासितं प्रतीतं, 'छीएणं' ति क्षुतं प्रतीतमेव तेनैतदपि, ‘जंभाइएणं' ति जृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्मिभतमुच्यते, ‘उड्डुएणं' ति उद्गारितं प्रतीतं, 'वायनिसग्गेणं' ति अपानेन पवननिर्गमो वातनिसर्गो भण्यते तेन, 'भमलीए'त्ति भ्रमल्या, इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव 'पित्तसंमूर्छया' पित्तमूर्छयाऽपि, पित्तप्राबल्यात् मनाग मूर्छा भवति, 'सुहुमेहिं अंगसंचालेहिं' सूक्ष्मैरङ्गसञ्चारैर्लक्ष्या www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy