________________
२५८
आवश्यक मूलसूत्रम् -२-५/३९
'समाणइत्ता' समाप्य बुद्ध्यवलोकनेन समाप्ति नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' चेतसि दोषान्-प्रतिषिद्धकरणादिलक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति । नि. (१५००) काउं हिअए दोसे जहक्कमं जा न ताव पारेइ ।
ताव सुहुमाणुपाणू धम्मं सुकं च झाइज्जा । वृ- कृत्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव आलोच्यन्ते पश्चाद् गुरव इति, ‘जा न ताव पारेति'त्ति यावन्न तावत् पारयति गुरुनैमस्कारेण, ‘ताव सुहुमाणुपाणु'त्ति तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छासनिश्वास इत्यर्थः, किं? - 'धम्मं सुकं च झाएज्जा' धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं शुकुं ध्यानं च ध्यायेदिति गाथार्थः । एवंनि. (१५०१) देसिय राइय पख्यि चाउम्मासे तहेव वरिसे य ।
इक्किक्के तिन्नि मा नायव्वा पंचसेएसु ॥ वृ- 'देवसिय'त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'राइय'त्ति, रात्रिके, 'पक्खिए'त्ति पाक्षिके 'चाउम्मासे'त्ति चातुर्मासिके तथैव 'वरिसि'त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिकं-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे दैवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः?, सामायिकं कृत्वा कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्वा पुनः कायोत्सर्गम्, इह च यस्माद् दिवसादि तीर्थं दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः । अत्राह चोदकःनि. (१५०२) आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं ।
तो किं करेह बीयं तइअं च पुणोऽवि उस्सग्गे?॥ वृ-'आदिमकायोत्सर्गे' इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योगः 'पडिक्कमणे ताव बितियं काउं सामाइयंति योगः ता किं करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो' यः प्रतिक्रान्तोपरीति गाथार्थः ।। नि. (१५०३) समभावंमि ठियप्पा उस्सग्गं करिय तो पडिक्कमइ ।
एमेव य समभावे ठियस्स तइयं तु उस्सग्गे ॥ वृ-चालना चेयम्, अत्रोच्यते-‘समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं काउ (करिय) तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्गं कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिकामति, ‘एमेव य समभावे ठितस्स ततियं तु उस्सग्गे' एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ।। नि. (१५०४) सज्झायझाणतओसहेसु उवएसथुइपयाणेसु ।
संतगुणकित्तणेसु अ न हुंति पुनरुत्तदोसा उ । वृ-प्रत्यवस्थानमिदम्-‘सज्झायझाण' गाहा व्याख्या निगदसिद्धा, इदानीं 'जो मे देवसिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org