SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -३ [ नि. ११०३ / १] २३ 'डुकृञ् करणे' अस्यापि क्तिनप्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः- मोक्षायावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चायं, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ति वचनात्, क्वचित ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' इति वचनात्, क्वचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे' ति, वचनात्, इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल' इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाक्कायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्द: पूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः, 'णीञ् प्रापणे' इत्यस्य एरचिति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते वाऽनेनाष्टप्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः काय कस्स व केण वावि काहे व कइखुत्तो ? कओणयं कसिरं कइहिं च आवस्सएहि परिसुद्धं । नि. ( ११०३ / २) कइदोसविप्पमुक्कं किइकम्मं कीस कीरइ वा ? वृ- इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन वा काले 'कतिकृत्वो वा' कियत्यो वा वारा: ? अवनतिः- अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैः आवर्तादिभिः परिशुद्धं, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म' वन्दनकर्म 'कीस कीरइ' त्ति किमिति वा क्रियत इति गाथाद्वयसंक्षेपार्थः ।। अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा द्रव्यतो भावतश्च द्रव्यतो मिथ्यादृष्टे रनुपयुक्तसम्यग्दष्टेश्च, भावतः सम्यग्दृष्टे रुपयुक्तस्य, चितिकर्मापि द्विधैव द्रव्यती भावतश्च, द्रव्यतस्तापसादिलिङ्ग ग्रहणकर्मानुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च भावतः सम्यग्दृष्टयुपयुक्ता रजोहरणाद्दुपधिक्रियेति, कृतिकर्मापि द्विधा - द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुप-युक्तसम्यग्उष्टीनां च, भावतः सम्यग्दृष्टयुपयुक्तानामिति, पूजाकर्मापि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च भावतः सम्यग्दृष्टयुपयुक्तानामिति, विनयकर्मापि द्विधा द्रव्यतो निह्नवादीनामनुपयुक्तसम्यग्द्दष्टीनां च भावत उपयुक्तसम्यग्दृष्टीनां विनय-क्रियेति ।। साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान् प्रतिपादयन्नाहFr. (9908) सीयले खुड्डए कण्हे सेवए पालए तहा । पंचेते दिट्ठता किइकम्मे होंति नायव्वा ।। वृ- सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः शीतलः ? तत्र कथानकम- एगस्स रन्नो पुत्तो सीयलो नाम, सोय निव्विण्णकामभोगो पव्वतिओ, तस्स य भगिनी अन्नस्स रन्नो दिन्ना, तीसे चत्तारि पुत्ता, सा तेसिं कहंतरेसु कहं कहेइ, जहा तुज्झ मातुलओ पुव्वपव्वइओ, एवं कालो वच्चइ । तेऽवि अन्नया तहारूवाणां थेराणं अंतिए पव्वइया चत्तारि, बहुस्सुया जाया, आयरियं पुच्छिउं माउलगं वंदगा जंति । एगंमि नयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं वाहिरियाए ठिया, सावगो य नयरं पवेसिउकामो सो भणिओ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy