SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ आवश्यक- मूलसूत्रम् -२- २/९ भ्योऽधिक प्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च‘चंदाइच्चगहाण’मित्यादि, सागरवरादपि गम्भीरतराः, तत्र सागरवरः- स्वयम्भूरमणोऽभिधीयते परीषहोपसर्गाद्यक्षोभ्यत्वात तस्मादपि गम्भीरतरा इति भावना, सितं ध्मातमेतेषामति सिद्धाः, कर्मविगमात कृतकृत्या इत्यर्थः, सिद्धिं परमपदप्राप्तिं मम दिसंतु' मम प्रयच्छन्त्विति सूत्रगाथार्थः । नि. (११०२) चंदाच्चगहाणं पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलंभो लोगालोगं पगासेइ ।। - वृ- 'चन्द्रादित्यग्रहाणा' मिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योतस्ना 'प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तद्व्यपदेशः, यथा मञ्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मैरुद्योतयतीति गाथार्थः । । उक्तोऽनुगमः, नयाः सामायिकवद् द्रष्टव्याः ।। व्याख्यायाघ्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः ।। अध्ययनं -२ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे द्वितीय अध्ययननं सनिर्युक्तभाष्यटीका परिसमाप्तं । अध्ययनं - ३ " वन्दनं" " वृ-साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं तस्य चायमभिसम्बन्धः, अनन्तराध्ययने सावद्ययोगविरतिलक्षणसामायिकोपदेष्टृणामर्हतामुत्कीर्तनं कृतम्, इह त्वर्हदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते, यद्व चतुर्विंशतिस्तवेऽर्हगुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः यथोक्तम्- 'भत्तीए जिनवराणं खिज्जंत्ती पुव्वसंचिआ कम्म' त्ति, वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभक्तेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च "विन ओवयार मानस्स भंजणा पूयणा गुरुजनस्स । तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ।। अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनायामैहिकामुष्मिकायापरजिहीर्षुणा गुरोर्निवेदनीयं तच वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरुप्यते-‘वदि अभिवादनस्तुत्योः' इत्यस्य ‘करणाधिकरणयोश्चे' ति ल्युट, 'युवोरनाकावि' त्यनादेशः, 'इदितो नुम् धातो' रिति नुमागमः, ततश्च वन्द्यते - स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम, अस्याधुना पर्यायशब्दान प्रतिपादयन्निदं गाथाशकलमाह नि. ( ११०३ / १) वंदनचिइकिइकम्मं पूयाकम्मं च विनयकम्मं च । वृ- वन्दनं - निरूपितमेव, 'चिञ् चयने' अस्य 'स्त्रियां क्तिन्' कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत्, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy