SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० आवश्यक मूलसूत्रम् -२-५/३७ एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं ॥ वृ- 'काए उस्सग्गंमि य' काये कायविषयः उत्सर्गे च-उत्सर्गविषयश्च एवं निक्षेपे-निक्षेपविषयौ भवतः द्वौ एव विकल्पौद्वावेव भेदौ, अनयौईयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः ।। नि. (१४२९) कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ वृ-तत्र 'कायस्स उ निक्खेवो' कायस्य तु निक्षेपः कार्य इति 'बारसउ'त्ति द्वादशप्रकारः। 'छक्कओ य उस्सग्गे' षट्कश्चोत्सर्गविषयः षट्प्रकार इत्यर्थः, पश्चार्द्धं निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाहनि. (१४३०) नामं ठवणसरीरे गई निकायत्थिकाय दविए य । माउय संगह पजव भारे तह भावकाए य॥ वृ. 'नामं ठवणा' नामकायः स्थापनाकायः शरीरकायः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकायः पर्यायकायः भारकायः तथा भावकायश्चेति गाथासमासार्थः। व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाहनि. (१४३१) काओ कस्सइ नाम कीरइ देहोवि वुच्चई काओ । कायमणिओवि वुच्चइ बद्धमवि निकायमाहंसु ॥ वृ- 'काओ कस्सवित्ति कायः कस्यचित् पदार्थस्य सचेतना चेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि उच्यते कायः, काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिल्लखादि 'निकायमाहंसुत्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारंनि. (१४३२) अक्खे वराडए वा कट्टे पुत्थे य चित्तकम्मे य । सब्भावमसब्भावं ठवणाकायं वियाणाहि ॥ वृ- 'अक्खे वराडए' अक्षे-चन्दनके वराटके वा-कपईके वा काष्ठे-कुट्ठिमे पुस्ते वा-वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भावः तथ्य इत्यर्थः तमाश्रित्य, तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, त चाश्रित्य, किं ?-स्थापनाकायं विजानाहीति गाथार्थः। सामान्यन सद्भावासद्भास्थापनोदाहरणमाहनि. (१४३३) लिप्पगहत्थी हस्थित्ति एस सब्भाविया भवे ठवणा । होइ असब्भावे पुन हत्थित्ति निरागिई अक्खो ॥ वृ- ‘लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते ‘एस सब्भाविया भवे ठवण'त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः-हस्त्याकृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः । शरीरकायप्रतिपादनायाहनि. (१४३४) ओरालियवेउव्वियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेयव्यो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy