SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ५ - [ नि. १४३४ ] २४१ वृ- 'ओरालियवेउच्चिय' उदारैः पुद्गलैनिर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आह्रियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्म्मणं, औदारिकं वैक्रिय आहारकं तैजसं कार्मणण चैव एष पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनाह (प्र.) वृ- 'चउसुवि गइ' इयमप्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते चतसृष्वपि गतिषुनारकतिर्यग्नरामरलक्षणासु 'देहो' त्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदकः - 'एसो सरीरकाउ ' त्ति नन्वेष शरीरकाय उक्तः, तथाहि नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह - 'विसेसणा होत गतिकाओ' विशेषणाद्-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विविधाः संसारिणः- त्रसाः स्थावराश्च पुनस्त एव स्त्रीपुनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः । सुविसु देहो नेरइयाईण जो स गइकाओ । एसो सरीरकाओ विसेसणा होइ गइकाओ || अथवा सर्वसत्त्वानामपान्तरालगतौ यः कायः स गतिकायो भण्यते, तथा चाहनि. (१४३५) जेनुवगहिओ वच्चइ भवंतरं जच्चिरेण कालेन । एसो खलु गइकाओ सतेयगं कम्मगसरीरं ॥ वृ- 'जेनुवगहिओ' येनोपगृहीत- उपकृतो व्रजति गच्छति भवादन्यो भवः भवान्तरं तत्, एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणा (श्रितोऽ) पान्तराले देवादिभवं गच्छति स गतिकायो भण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेणं' ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायो भण्यते एष खलु गतिकायः, स्वरूपेणैव दर्शनयन्नाह - 'सतेयगं कम्मसरीर' कार्मणस्य प्राधान्यत् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी (यम) यं गाथार्थः ॥ निकायकायः प्रतिपाद्यते तत्र नि. ( १४३६) निययमहिओ व काओ जीवनिकाओ निकायकाओ य । अत्थित्तिबहुपएसा तेनं पंचत्थिकाया उ ॥ वृ- 'नियय'त्ति गाथार्द्धं व्याख्यायते निययमहिओ व काओ जीवनिकाय'त्ति नियतोनित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावाथ अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्ति कायापेक्षया स्वभेदापेक्षया वा, तथाहि एकादयो यावदसङ्घयेयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति, एवमन्योष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षड्विधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारं । अधुनाऽस्तिकायः प्रतिपाद्यते, तत्रेदं गाथाशकलं 2516 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy