SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ५ - [ नि. १४२४ ] ज्ञातव्य इति गाथार्थः ॥ | साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजैन चिकित्सा प्रतिपाद्यते, तत्र नि. (१४२५) भिक्खायरियाइ सुज्झइ अइओल्लकोइ वियडणाए उ । बीओ असमिओमित्ति कीस सहसा अगुत्तो वा ।। बृ- 'भिक्खायरियाइ' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः २, एवं सर्वत्र योज्यं, 'बितिउ 'त्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौहा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः ॥ नि. (१४२६) सद्दाइएसु रागं दोसं च मणा गओ तइयगंमि । नाउं अनेसणिज्जं भत्ताइविगिंचण चउत्थे ॥ २३९ वृ- 'शब्दादिषु इष्टानिष्टेषु रागं द्वेषं वा मनसा (मनाक) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्तादि विगिञ्चना चतुर्थ इति गाथार्थः ॥ नि. (१४२७) उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं । तेनवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ वृ- 'उस्सग्गेणवि सुज्झइ' कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित् कश्चित् तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगगतिकादिना षण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ एवं सप्तप्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्तने, इत्युक्तमानुषङ्गिकं प्रस्तुतं प्रस्तुम्ः - एवमनेनानेकस्वरूपेणसम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः नि. (१४२८) निक्खेवे १ गट्ठ २ विहाणमग्गणा ३ काल ४ भेयपरिमाणे ५ 1. असढ ६ सढे ७ विहि ८ दोसा ९ कस्सत्ति १० फलं च ११ दाराई || वृ- 'निक्खेवेगट्ठविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एगट्ठ' त्ति एकार्थिकानि वक्तव्यानि 'विहाणमग्गण'त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या ‘कालाभेदपरिमाणे’त्ति कालपरिमाणमभिभवकायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असढसढे' त्ति अशठः शठश्च कायोत्सर्गकर्त्ता वक्तव्यः वहि 'त्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फल' त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराई' ति एतावन्ति द्वाराणीति गाथासमासार्थः ।। व्यासार्थं तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार:काए उस्सग्गंमि य निक्खेवे हुंति दुन्नि उ विगप्पा । [भा. २२८] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy