________________
१३२
आवश्यक- मूलसूत्रम् - २- ४ /२३
संजयमनुएहिं जा सा सा दुविहा होइ आनुपुव्वीए । सच्चित्तेहिं सुविहिया ! अच्चित्तेहिं च नायव्वा । ।१० ॥
वृ- 'संयतमनुष्यैः ' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, सह चित्तेन वर्तन्त इति सचित्तास्तैः - जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत 'अच्चित्तेहिं च नायव्व' त्ति अविद्यमानचित्तैश्च-मृतैरित्यर्थः, ज्ञातव्या विज्ञेयेति गाथाक्षरार्थः । । इत्थं तावदुद्देशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाहअनभोग कारणेण व नपुंसमाईसु होइ सच्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पडिक्खिज्जा ||११ ॥
वृ- आभोगनमाभोगः- उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन 'नपुंसकादिषु' दीक्षितेषु सत्सु भवति 'सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाज्जड्डादिपरिग्रहः, तत्र चायं विधिः योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह- 'वोसिरणं तु नपुंसे' त्ति व्युत्सृजनं परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं पडिक्खिज्ज' त्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'काल' न्ति यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद्व्युत्सृजेत इति गाथाक्षरार्थः । । अथ किं तत्कारणं येनासौ दीक्ष्यत इति ?, तत्रानेकभेदं कारणमुपदर्शयन्नाह
Jain Education International
असिवे ओमोयरिए रायटुट्टे भए व आगाढे । गेलने उत्तमट्टे नाणे तवदंसणचरिते ॥ १२ ॥
वृ- 'अशिवं' व्यन्तरकृतं व्यसनम् 'अवमौदर्यं' दुर्भिक्षं 'राजद्विष्टं' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः ‘अगाढं' भृशम, अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु ''लानत्वं' ग्लानभावः ‘उत्तमार्थः’ कालधर्मः, 'ज्ञानं' श्रुतादि तथा 'दर्शनं' तत्प्रभावकशास्त्रलक्षणं 'चारित्रं ' प्रतीतम, एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौदीक्ष्यते इति, उक्तं च
'रायदुदुभएसुं ताणट्ठ निवस्स वाऽभिगमणट्टा । वेज्जो व सयं तस्स व तप्पिस्सइ वा गिलाणस्स ।। गुरुणोव्व अप्पणी वा नाणा गिण्हमाणि तप्पिहिई ।
अचरणदेसा निंते तप्पे ओमासिवेहिं वा ।। एएहिं कारणेहिं आगाढेहिं तु जो उपव्वावे । पंडा सोलसयं कए उ कज्जे विगिंचणया ।।
जो सो असिवाइकारणेहिं पव्वाविज्जइ नपुंसगो सो दुविहो-जाणओय अजाणओ य, जाणओ जाणइजह साहूणं न वट्टइ नपुंसओ पव्वावेउं, अयाणओ न जाणइ, तत्थ जाणओ पन्नविज्जइ जह न वट्टइ तुज्झ पव्वज्जा, नाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहूणं वट्टसु तो ते विउल निज्जरा भविस्सइ, जइ इच्छइ लठ्ठे, अहन इच्छइ तो तस्स अयाणयस्स य कारणे पव्वाविज्जमाणाणं इमा जणा कीर -
कडपट्टय छिली कत्तरिया भंडु लोय पाढे य ।
For Private & Personal Use Only
www.jainelibrary.org