SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० आवश्यक-मूलसूत्रम् -२- ४/२१ वायुसमन्वितः ‘द्रुतं' शीधं च 'दहति' भस्मीकरोति, तथा दुःखतापहेतुत्वात कमैवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन' समयेन ध्यानमनल इव ध्यानानलः असौ ‘दहति' भस्मीकरोतीतिगाथार्थः ।। जह वा घनसंघायाखणेण पवणाहया विलिज्जंति । झाणवणावहूया तह कम्मघना विलिज्जंति ।। १०२ ॥ वृ- यथा वा 'घनसङ्घाताः' मेधौधाः क्षणेन ‘पवनाहताः' वायुप्रेरिता विलयं-विनाशं यान्तिगच्छन्ति, 'ध्यानपवनावधूता' घ्यानवायुविक्षिप्ताःतथा कर्मैव जीवस्वभावावरणादधनाः २, उक्तं “स्थितः शीतांशुवज्जीवः, प्रकृत्याभावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद ।।" इत्यादि, 'विलीयन्ते विनाशमुपयान्तीति। किं चेदमन्यद?, इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि ववाहिज्जइ मानसेहिंदुक्खेहिं । साविसायसोगाइएहिं झाणोवगयचित्तो ।। १०३ ॥ वृ- 'नकषायसमुत्थैश्च' नक्रोधाद्युद्भवैश्च 'बाध्यते' पीड्यतेमानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषादः-वैक्लव्यंशोकः-दैन्यम्, आदिशब्दाद् हर्षादिपरिग्रहः, घ्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ।। सीयायवहाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिच्चलचित्तो न वहिज्जइ निजरापेही ।। १०४ ।। वृ- इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शरीरैः 'सुबहुप्रकारैः' अनेक भेदैः ‘घ्यानसुनिश्चलचित्तः' घ्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुंतत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इति गाथार्थः ।। उक्तं फलद्वारम्, अधुनोपसंहरन्नाह इय सव्वगुणाधानं दिवादिट्ठसुहसाहणं झाणं । सुपसत्थं सदैवं नेयं झेयं च निच्चंपि ।। १०५ ॥ वृ. 'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं घ्यानमुक्तन्यायात सुष्ठु प्रशस्तं २, तीर्थकरगणधरादिभिरासेविततवात, यतश्चेववमतः, श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं' ज्ञातव्यं स्वरूपतः 'ध्येयम' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, नित्यमपि सर्वकालभपि, आह-एवं सर्वक्रियालोपः प्राप्नोति, न तदासेवनस्यापि तत्त्वतो ध्यानत्वात, नास्ति काचिदसौ क्रिया यया साधूनां घ्यानं न भवतीति गाथार्थः ।। __ मू. (२२) पडिक्कमामि पंचहि किरियाहिंकाइयाए अहिगरणियाए पाउसियाएपारितावणियाए पाणाइवायकिरियाए वृ- प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथाः 'काइयाए' इत्यादि, चीयत इति कायः, कायेन निर्वृत्ता कायिकी तया, सा पुनस्त्रिधा-अविरतकायिकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy