________________
अध्ययनं-४- [नि. १२७१]
१२१ दुष्प्रणिहितकायिकी उपरतकायिकी, (च) तत्र मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाऽऽघा अविरतस्य कायिकी-उत्क्षेपणादिलक्षणा क्रियाकर्मबन्धनाऽविरतकायिकी, एवमन्यत्रापिषष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य,सा पुनर्द्विधा-इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकीच, तत्राऽऽद्येन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्य-इष्टानिष्टविषयप्राप्ती मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियेण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाऽप्रमत्तसंयतस्य-उपरतस्यसावद्ययोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी १, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम-अनुष्ठानं बाह्यं वा वस्तुचक्रमहादितेन निवृत्ता-अधिकरीणकी तया, सा पुनर्द्विधाअधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहःपशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खङ्गादिनिवर्तिनी, अलभन्यैरुदाहरणैः, अनयोरेवान्तःपातित्वात्तेषां, गताऽऽधिकरणिकीर, प्रद्वेषःमत्सरस्तेन निर्वृत्ताप्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रवेषिकीच, आद्याजीवे प्रद्वेषं गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया ३, __ परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया, असावपि द्विधैवस्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारतापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीय परहस्तेन कायरतः, गताचतुर्थी ४,प्राणतिपातः-प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा-स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च, तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गार्थ वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परप्राणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिहींलितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचकः स्मार्तो वा यागइति, गता पञ्चमी ५ ।।
क्रियाऽधिकाराच्च शिष्यहितायानुपात्ताअपिसूत्रेअन्या अपि विशतिः क्रियाः प्रदर्श्यन्ते, तंजहाआरंभिया १ परिगहिया २ मायावत्तिया ३ मिच्छादसणवत्तिया ४ अपच्चक्खाणकिरिया ५ दिट्ठिया ६ पुट्ठिया ७ पाडुच्चिया ८ सामंतोवणिवाइया ९ नेसत्थिया १० साहत्थिया ११ आणमणिया १२ वियारणिया १३ अणाभोगवत्तिया १४ अणवकंखवत्तिया १५पओगकिरिया १६ समुयाणकिरिया १७ पेज्जवत्तिया १८ दोसवत्तिया १९ ईरियावहिया २० चेत्ति, __ तत्थारंभिया दुविहा-जीवारंभिया य अजीवारंभिया य जीवारंभिया-जं जीवेआरंभइ अजीवारंभिया-अजीवे आरंभइ १, पारिग्गहिया किरियादुविहा-जीवपारिग्गहिया अजीवपारिग्गहिया य, जीवपारिग्गहिया-जीवे परिगिण्हइ, अजीवपारिग्गहिया-अजीवे परिगिण्हइ २, मायावत्तिया किरिया दुविहा-आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गूहइ नियडीमंतो उज्जुभावं दंसेह, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया तं तं आयरति जेण परो वंचिज्जइ कूडलेहकरणाहिं ३, मिच्छादसणवत्तिया किरिया दुविहाअनभिग्गहियमिच्छादसणवत्तिया य अभिग्गहियमिच्छादसणवत्तिया य, अनभिग्गहियमिच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org