________________
११८
आवश्यक - मूलसूत्रम् - २- ४ /२१
आसवदारावाए तह संसारासुहानुभावं च । भवसंताणमनंतं वत्थूणं विपरिणामं च । । ८८ ॥
वृ- आश्रवद्वाराणि मिथ्यात्वादीनि तदपायान्-दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानां सव्वद्वाणाणि असासयाणी'त्यादि, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति । उक्तमनुप्रेक्षाद्वारम्, इदानीं लेश्याद्वाराभिधित्सयाऽऽहसुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजिय सेलेसिं लेसाईयं परमसुक्कं ।। ८९ ।।
वृ- सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां ‘स्थिरताजितशैलेशं' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्लं' चतुर्थमिति । उक्तं लेश्याद्वारम् अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाणस्वरूपगुणभावनार्थमाहअवहासंमोहविवेगविउसग्गा तस्स होंति लिंगाई ।
लिंगिज्जइ जेहिं मुनी सुक्कज्झाणोवगयचित्तो ।। ९० ॥
वृ- अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, 'लिङ्गयते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः । । अधुना भावार्थमाहचालिज्जइ बीभेइ य धीरो न परीसहोवसग्गेहिं ।
सुहुमेसु न संमुज्झइ भावेसु न देवमावासु ।। ९१ ॥
वृ- चाल्यते ध्यानात् न परीषहोपसर्गैर्बिभेति वा ‘धीरः' बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्ग, 'सूक्ष्मेषु' अत्यन्तगहनेषु 'न संमुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथाक्षरार्थः ।
देहविवित्तं पेच्छइ अप्पाणं तह व सव्वसंजोगे । देहवहिवोसग्गं निस्संगो सव्वहा कुणइ ।। ९२ ॥
वृ- देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्ग, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गीमति गाथार्थः । । गतं लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाघशुक्लद्वयफलत्वाद्, अत आह
Jain Education International
होंति सुहासवसंवरविणिज्जरामरसुहाई विउलाई । जाणवरस्स फलाई सुहानुबंधीनि धम्मस्स ।। ९३ ॥
वृ भवन्ति 'शुभाश्रवसंवर विनिर्जरामरसुखानि शुभाश्रवः पुण्याश्रवः संवरः अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयः अमर सुखानि देव सुखानि, एतानि च दीर्घस्थिति विशुद्धयुपपाताभ्यां 'विपुलानि ' विस्तीर्णानि 'ध्यान वरस्य' ध्यात प्रधानस्य फलानि शुभानुबन्धानि' सुकुलप्रत्यायातिपुनः बोधिलाभभोग प्रव्रज्याकेवल शैलेश्य पवर्गानुबन्धीनि 'धर्मस्य' ध्यान स्येति गाथार्थः । उक्तानि धर्मफलानि अधुना शुक्लमधिकृत्याह
ते य विसेसेण सुभासवादओऽनुत्तरामर सुहंच ।
For Private & Personal Use Only
www.jainelibrary.org