________________
अध्ययनं -४- [नि. १२७१]]
११७ वृ. 'प्रथम' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु ‘मतम्' इष्टं, तच्चागीमकश्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कमविचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् 'अयोगिनि च' शैलेशीकेवलिनि चतुर्थं' व्युपरतक्रियाऽप्रतीपातीतिगाथार्थः ।। आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वा केवलिनः, ध्यानं च मनोविशेषः ‘घ्यै चिन्ताया’ मिति पाठात्, तदेतत्कथम् ?, उच्यते
जह छउमत्थस्स मनो झाणं भन्नइ सुनिच्चलो संतो।
तह केवलिनो काओ सुनिच्चलो भन्नए झाणं ।। ८४ ॥ वृ-यथा छद्मस्थस्य मनः, किं ?-घ्यानं भण्यते सुनिश्चलं सत, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते घ्यानमिति गाथार्थः ।। आह-चतुर्थे निरुद्धत्वादसावपिनभवति, तथाविधभावेऽपिच सर्वभावप्रसङ्गः, तत्र का वार्तेति?, उच्यते
पुव्वप्पओगओ चिय कम्मविनिज्जरणहेउतो यावि । सद्दत्थबहुत्ताओ तह जिनचंदागमाओय ।। ८५ ॥ चित्ताभावेवि सयासुहमोवरयकिरियाइ भन्नति ।
जीवोवओगसब्भावओ भवत्थस्स झाणाई ।। ८६ ॥ वृ- काययोगगनिरोधिनो योगिनोऽयोगिनोऽपि चित्ताभावेऽपि सूक्ष्मोपरतक्रियो, भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद्व्युपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः,यथा चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसोभावतभवस्थस्यध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः, विशेषस्तूच्यते- 'कर्मविनिर्जरणहेतुतश्चापि' कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत, भवति च क्षपश्रेण्याभिवास्य भवोपग्राहिकर्मनिर्जरतभावः, चशब्दः प्रस्तुतहेतुत्वनुकर्षणार्थः, अपिशब्दस्तुद्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थबहत्वात' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनकार्थाः एवं घ्यानशब्दस्यापि न विरोधः, 'ध्यै चिन्तायां' 'घ्यै कायनिरोधे' ‘घ्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाचैतदेवमिति, उक्तंच
'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम ।
अतीन्द्रियाणामथानां, सद्भावप्रतिपत्तये ।। इत्यादि गाथाद्वयार्थः ।। उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते
सुक्कज्झाणसुभावियचित्तो चिंतेइझाणविरमेऽवि ।
निययमनुप्पेहाओ चत्तारिचरितसंपन्नो ।। ८७ ॥ वृ-शुक्लघ्यानसुभावितचित्तश्चिन्तयतिघ्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाथार्थः ।। ताश्चैताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org