________________
११६
आवश्यक-मूलसूत्रम् -२- ४/२१ पर्यावाणां यदेकस्मिन द्रव्ये-अण्वात्मादौ, किं ? नानानयैः-द्रव्यास्त्किदिभिरनुस्मरणं-चिन्तनं, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनांत्वन्यथा ।। तत्किमित्याह
सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं ।
होइ पुत्तवितकं सवियारमरागभावस्स ||७८ ॥ वृ- ‘सविचारं' सह विचारेण वर्तत इति २, विचारः-अर्थव्यञ्जनयोगसङ्क्रम इति, आह च'अर्थव्यञ्जनयोगान्तरतः-अर्थः-द्रव्यं व्यञ्जनं-शब्दः योगः-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम्, अर्थाद्व्यञ्जनं सङ्क्रामतीति विभाषा, ‘तकम' एतत 'प्रथमं शुक्लम' आद्यशुक्लं भवति, किंनामेत्यत आह-'पृथक्त्ववितर्क सविचारं' पृथक्त्वेनभेदेन विस्तीर्णभावेनान्ये वितर्कःश्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहितस्येति गाथार्थः ।।
जंपुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं ।
3. यठिइमंगाइयाणमेगंमि पज्जाए ॥७९ ॥ वृ- यत्पुनः ‘सुनिष्प्रकम्पं विक्षेपरहितं 'निवातशरणप्रदीप इव' निर्गतवात गृहैकदेशस्य दीप इव 'चित्तम्' अन्तःकरणं, क्व ? उत्पाद स्थिति भङ्गादीनामे कस्मिन् पर्याये ।। ततः किमत आह
अवियारमत्थवंजणजोगंतरओ तयं बितियसुक्कं ।
पुव्वगयसुयालंबण मेगत्तवितक्क विचारं ॥८० ॥ वृ- अविचारम्- असङ्क्रम, कुतः? अर्थव्यञ्जन योगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्लं भवति, किमभिधानमित्यत,आह- ‘एकत्व वितर्कम विचारम्' एकत्वेन अभेदेन वितर्कः व्यञ्जन रूपोऽर्थरूपोवा यस्यतत्तथा इदमपिचपूर्वगतश्रुतानुसारेणैव भवति, अविचारादिपूर्ववदिति गाथार्थ ः॥
निव्वाणगमनकाले केवलिणो दरनिरुद्वजोगस्स ।
सुहुमकिरियाऽनियटिं तइयंतणुकायकिरियस्स ।। ८१ ॥ वृ-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये केवलिनः' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्ध सति अर्द्धनिरुद्धकाययोगस्य, किं ?- 'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं चतदनिवर्ति चेति नाम, निवर्तितुंशीलमस्येति निवर्तिप्रवर्द्धमानतरपरिणामात न निवर्ति अनिवर्ति तृतीयं, घ्यानमिति गम्यते, तनुकायक्रियस्येतितन्वी उच्छ्रासनिःश्वासादिलक्षणाकायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ।।
तस्सेव व सेलेसीगयस्स सेलोव्व निप्पकंपस्स ।
वोच्छिन्नकिरियमप्पडिवाइज्झाणं परमसुक्कं ।। ८२ ॥ वृ- 'तस्यैव च' केवलिनः शैलेशीगतस्य' शैलेशी-प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य?निरुद्धयोगत्वात शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ?-व्यवच्छिन्नक्रियं योगाभावात् तद् ‘अप्रतिपाति' अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लंप्रकटार्थमिति। इत्थं चतुर्विधं घ्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह
पढमंजोगे जोगेसु वा मयं बितियमेव जोगंमि। तइयं च कायजोगेसुक्कमजोगंमि य चउत्थं ।। ८३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org