________________
अध्ययनं ४ [ नि. १२७१]
भावनादेशकालासनविशेषेषु (धर्म) घ्यानादस्याविशेष एवेत्यत एतान्यनादृत्याऽऽलम्बनान्य
भिधित्सुराह
अह खंतिमद्दवज्जवमुत्तीओ जिनमयप्पहाणाओ । आलंबणां जेहिं सुक्कज्झाणं समारुहइ ।। ६९ ।।
वृ- 'अथे' त्यासनविशेषानन्तर्ये, 'क्षान्तिमार्द्दवार्जवमुक्तयः क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम्, एता एव क्षान्तिमार्द्दवार्जवमुक्तयो विशेष्यन्ते - 'जिनमतप्रधाना' इति जिनमतेतीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः २, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च नियमतो मुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि प्राग्निरूपितशब्दार्थानि, यैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याघालम्बना एव शुक्लघ्यानं समासादयन्ति नान्य इति गाथार्थः ।। शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः,
>
व्याख्यातं क्रमश्चाऽऽद्ययोर्धर्मध्यान एवोक्तः, इह पुनरयं विशेष:
-
११३
तिहुयणविसयं कमसो संखिविउ मनो अणुंमि छउमत्थो । झायइ सुनिप्पकंपो झाणं अमनो जिनो होइ ।। ७० ॥
वृ- त्रिभुवनम् - अधस्तिर्यगूर्ध्वलोकभेदं तद्विषयः-गोचरः आलम्बनं यस्य मनस इति इति योगः, तत्रिभुवनविषयं 'क्रमशः ' क्रमेण परिपाट्या-प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, किं ?‘मनः' अन्तःकरणं, क्व ? 'अणौपरमाणौ, निधायेति शेषः, कः ? - ‘छद्मस्थः ' प्राग्निरूपितशब्दार्थः, 'घ्यायति' चिन्तयति 'सुनिष्प्रकम्पः' अतीव निश्चल इत्यर्थः, 'घ्यानं शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय 'अमनाः' अविघमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याघस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः । । आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति ?, केवली वा ततोऽप्यपनयतीति ? जह सव्वसरीरगयं मंतेन विसं निरुंभए डंके ।
Jain Education International
तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोगेणं । । ७१ ॥
वृ- 'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विषं' मारणात्मकं द्रव्यं 'निरुध्यते' निश्चयेन ध्रियते, क्क ? - 'डङ्के' भक्षणदेशे, 'ततः' डङ्कात्पुनरपनीयते, केनेत्यत आह- 'प्रधानतरमन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः, परिगृह्यते इति गाथार्थः । ।
तह तिहुयणतणुविसयं मनोविसं जोगमंतबलजुत्तो ।
परमाणुंमि निरुभइ अवणेइ तओवि जिणवेज्जो || ७२ ॥
वृ तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोगबलयुक्तः - जिनवचनघ्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति ' ततोऽपि' तस्मादपि परमाणोः कः ? - 'जिनवैद्यः' जिनभिषग्वर इति गाथार्थः ।। अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आह
,
25 8
For Private & Personal Use Only
www.jainelibrary.org