________________
११२
आवश्यक-मूलसूत्रम् -२.४/२१ घ्यातार इति योगः, ‘एवं च गम्मए-सुक्कज्झाणाइदुगंवोलीन्नस्सततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलनाणमुप्पज्जइ, केवलीयसुक्ललेसोऽज्झाणी यजावसुहुमकिरियमनियट्टि'त्ति ।। उक्तमानुषङ्गिकम्, इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं
झाणोवरमेऽवि मुनी निच्चमनिच्चाइभावनापरमो ।
होइ सुभावियचित्तो धम्मज्झाणेण जो पुव्विं ।। ६५ ॥ वृ- इह घ्यानं धर्मध्याननमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं' सर्वकालमनित्यादिचिन्तनापरमोभवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः, एताश्चद्वादशानुप्रेक्षा भावयितव्याः, 'इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदः' इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम्, अथ किंविशिष्टोऽनित्यादिचिन्तनापरमो भवतीत्यत आह- 'सुभावितचित्तः' सुभावितान्तःकरणः, केन?-'धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन 'यः' कश्चित पूर्वम्' आदावितिगाथार्थः । । गतमनुप्रेक्षाद्वारम, अधुना लेश्याद्वारप्रतिपादनायाह
होति कमविसुद्धाओ लेसाओ पीयपम्हसुक्काओ ।
धम्मज्झाणोवगयस्स तिव्वमंदाइभेयाओ ।। ६६ ॥ वृ-इह भवन्ति' संजायन्ते क्रमाविशुद्धाः' परिपाटिविशुद्धाः,काः?-लेश्याः,ताश्च पीतपद्मशुक्लाः, एतदुक्तं भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपिशुक्ललेश्येतिक्रमः, कस्यैता भवन्त्यत आह-'धर्मघ्यानोपगतस्य' धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह'तीव्रमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थः । उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वारं विवृण्वन्नाह
आगमउवएसाणानिसगओ जं जिनप्पणीयाणं ।
भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं ।। ६७ ॥ वृ- इहागमोपदेशाज्ञानिसर्गतो यद 'जिनप्रणीतानां' तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथाएत इत्यादिलक्षणं धर्मध्यानस्य तल्लिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यातीति, इह चागमः-सूत्रमेव तदनुसारेण कथनम-उपदेशः आज्ञा त्वर्थः निसर्गः-स्वभाव इति गाथार्थः ।।
जिनसाहूगुणकित्तणपसंसणाविनयदानसंपन्नो ।
सुअसीलसंजमरओ धम्मज्झाणी मुणेयव्यो।। ६८ ॥ वृ- 'जिनसाधुगुणोत्कीर्तनप्रशंसावियनदानसम्पन्नः' इह जिनसाधवः-प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनं-सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोलाध्यतया भक्तिपूर्विका स्तुतिः, विनयः-अभ्युत्थानादि, दानम-अशनादिप्रदानम, एतत्सम्पन्नः-एतत्समन्वितः, तथा श्रुतशीलसंयमरतः, तत्र श्रुतं-सामायिकादिबिन्दुसारान्तंशीलं-व्रतादिसमाधानलक्षणं संयमस्तुप्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं-‘पञ्चाश्रवा' दित्यादि, एतेषुभावतो रतः, किं?धर्मध्यानीति ज्ञातव्य इति गाथार्थः ।। गतं लिङ्गद्वारम्, अधुना फलद्वारवसरः, तच्च लाघवार्थं शुक्लध्यान फलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम, इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org