________________
अध्ययनं - -४- [ नि. १२७१ ]
999
सुखहेतुत्वाद्रत्नानि रतैः परिपूर्णः भृतस्तं येन प्रकारेण यथा 'तत्' प्रक्रान्तं 'निर्वाणपुरं' सिद्धिपत्तनं परिनिवाणपुरं वेति पाठान्तरं 'शीघ्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्रशुवन्ति' आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ।।
तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं जह सोक्खं अक्खयमुवेति ।। ६१ ॥
वृ- 'तत्रच' परिनिर्वाणपुर 'त्रिरत्नविनियोगात्मक' मिति त्रीणि रत्नानि ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविकं' न कृत्रिमं 'निरुपमम्' उपमातीतमिति, उक्तं च- 'नवि अत्थि माणुसाणं तं सोक्ख'मित्यादि 'यथा' येन प्रकारेण 'सौख्यं' प्रतीतम् 'अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथार्थः ।।
किं बहुना ? सद्वं चिय जीवाइपयत्यवित्थरोवेयं । सद्वयसमूहमयं झाएज्ज समयसब्भावं ।। ६२ ॥
वृ- किंबहुना भाषितेन ?, 'सर्वमेव' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवर निर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टं ?'सर्वनयन-समूहात्मकं' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत' विचिन्तयेदिति भावना, 'समय- सद्भावं' सिद्धान्तार्थमिति हृदयम, अयं गाथार्थः । । गतं ध्यातव्यद्वारं, साम्प्रतं वेऽस्य ध्यातारस्तान् प्रतिपादयन्नाहसव्वप्यमायरहिवा मुणओ खीणोवसंतमोहा व ।
झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ६३ ॥
वृ-प्रमादा-मद्यादयः यथोक्तम्- 'मज्जं विसयकसाया निद्दा विकहा य पंचमी भणिया सर्वप्रमादै रहिताः सर्वप्रमादरहिताः अप्रमादवन्त इत्यर्थः 'मुनयः' साधवः 'क्षीणोपशान्तमोहश्च' इति क्षीणमोहाः क्षपकनिर्ग्रन्थाः उपशान्तमोहा-उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ‘ध्यातारः’ चिन्तकाः, धर्मघ्यानस्येति सम्बन्धः, घ्यातार एव विशेष्यन्ते- 'ज्ञानधनाः ' ज्ञानवित्ताः, विपश्चित इत्यर्थः, 'निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः । । उक्ता धर्मध्यानस्य घ्यातारः, साम्प्रतं शुक्लघ्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाघवार्थं चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराहएएचिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा ।
दोह सजोगाजोगा सुक्काण पराण केवलिणो । । ६४ ॥
वृ- 'एत एव' येऽनन्तरमेव धर्मध्यानध्यातार उक्तः 'पूर्वयोः' इत्याघयोर्द्धयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः घ्यातार इति गम्यते, अयं पुनर्विशेष:'पूर्वधराः ' चतुर्दशपूर्वविदस्तदुपयुक्तः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्व धराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणीमति, तथा 'द्वयोः' शुक्लयोः परयोः उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org