________________
११०
आवश्यक-मूलसूत्रम् -२- ४/२१ वसनसयसावयमणं मोहावत्तं महाभीमं ।। ५६ ॥ वृ-'तस्य च' जीवस्य ‘स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं कं?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम, आदिशब्दाज्जरामरणपरिग्रहः, एतान्येवातिबहुत्वाज्जलभिव जलं यस्मिन स तथाविधस्तं, तथा 'कषायपातालं' कषायाःपूर्वोक्तास्त एवागाधभवजननसाम्येन पातालभिव पातालं यस्मिन स तथाविधस्तं, तथा 'वयसनशतश्वापदवन्तं' व्यसनानि-दुःखानि द्यूतादीनि वा तच्छतान्यव पीडाहेतुत्वात श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं मनं'तिदेशीशब्दो मत्वर्थीयः, उक्तं च “मतुयत्थंमि मुणिज्जह आलं इल्लं भणंमनुयं चे"ति, तथा 'मोहावर्त' मोहः-मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थः ।। किंच
अन्नाणमारुएरियसंजोगजिगवइसंताणं ।
संसारसागरमणोरपारमसुइं विचिंतेचा ।। ५७ ॥ वृ- 'अज्ञानं' ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतःवायुस्तेनेरितः-प्रेरितः, कः ?-संयोगवियोगवीचिसन्तानो यस्मिन स तथाविधस्तं, तत्र संयोगःकेनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात् वीचयःऊर्मयस्तत्प्रवाहः-सन्तान इतिभावना, संसरणं संसारः (?) सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम्' अनाद्यपर्यवसितम अशुभम' अशोभनं विचिन्तयेत, तस्य गुणरहितस्य जीवस्येति।
__ तस्स वसंतरणसहं सम्मइंसणसुबंधणनग्धं ।
नाणमयकत्रधारं चारितमयं महापोयं ।। ५८ ॥ वृ- 'तस्य च' संसारसागरस्य 'संतरणसह' सन्तरणसमर्थं, पोतमिति वक्ष्यति, किंविशिष्टं ?सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, 'अनघम्' अपापं, ज्ञान-प्रतीतं तन्मयःतदात्मकः कर्णधारः-निर्यामकविशेषो यस्य यस्मिन वा स तथाविधस्तं, चारित्रं-प्रतीतं तदात्मकं 'महापोतम्' इति महाबोहित्थं, क्रिया पूर्ववदिति गाथार्थः ।।
संवरकयनिच्छिदंतवपवणाइद्धजइणतरवेगं ।
वेरगमगपडियं विसोत्तियावीइनिक्खोभं ।। ५९ ॥ वृ- इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं-स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपः तदेवेष्टपुरंप्रति प्रेरकत्वात पवनइव तपःपवनस्तेनाऽऽविद्धस्य -प्रेरितस्यजवनतरः-शीघ्रतरो वेगःरयो यस्य स तथाविधस्तं. तथा विरागस्य भावो वैराग्यं, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन पतितः-गतस्तं, तथा विस्रोतसिका-अपध्यानानि एता एवेष्टपुरप्राप्तिविघ्न-- हेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः- निष्प्रकम्पस्तमिति ..
आरोढुं मुनिवणिया महग्घसीलंगरयणपडिपुन्नं ।
___ जहतं निव्वाणपुरं सिग्धमविग्घेण पावंति ।।६० ॥ वृ- 'आरोढं' इत्यारुह्य, के ? - 'मुनिवणिजः' मन्यन्ते जगतस्त्रिकालावस्थामति मुनयः त एवातिनिपुणमायव्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-महार्घाणि शीलाङ्गानि-पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org