________________
अध्ययनं ४ - [ नि. १२७१]
१०९
भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याइ - 'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः । । किं च- तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह
खिइवलय दीवसागरनरयविमाणभवणाइसठाणं । वोमाइपइट्ठाणं निययं लोगट्ठिइविहाणं । । ५४ ॥
बू - 'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थान' तत्र क्षितयः खलु धर्माद्याईषत् प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि - धनोदधिधननवाततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपः - जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरपर्यन्ता असङ्ख्ययेया एव, निरयाः- सीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्
'तीसा य पन्नवीसा पनरस दसेव सयसहस्साइं । तिन्नेगं पंचूणं पंच य नरगा जहाकमसो ।।'
विमानानि ज्योतिषीकादिसम्बन्धीन्यनुत्तर विमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि-भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि असंख्येयानि, (उक्तं च
"सत्तेव य कोडीओ हवंति बावत्तरिं सयसहस्सा । सो भवणसमासो भवणवईणं वियाणेज्जा ।। "
आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, उक्तं च
'हेट्टोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेज्जा ।।"
ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा ‘व्योमादिप्रतिष्ठानम्' इत्यत्र प्रतिष्ठितिः प्रतिष्ठानं, भावे ल्युट् व्योम - आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येत व्योमादिप्रतिष्ठानं, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः २, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरं, तद्विधानं, किम्भूतं ? - 'नियतं ' नित्यं शाश्वतं क्रिया पूर्ववदिति गाथार्थः । । किं चउवओगलक्खणमणाइ निहणमत्थंतरं सरीराओ ।
-
जीवमरूविं कारिं भोयं च सयस्स कम्मस्स ।। ५५ ॥
Jain Education International
वृ- उपयुज्यतेऽनेनेत्युपयोगः - साकारानाकारादिः, उक्तं च- 'सद्विविधोऽष्टचतुर्भेदः' स एव लक्षणं यस्य स उपयोगलक्षणस्तं जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा 'अर्थान्तरं' पृथग्भूतं, कुतः ? - शरीरात्, जातोवेकवचनं, शरीरेभ्यः - औदारिकादिभ्य इति, किमित्यत आह- जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह- 'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'कर्तारं ' निर्वतृकं, कर्मण इति गम्यते, तथा ‘भोक्तारम्’ उपभोक्तारं, कस्य? स्वकर्मणः - आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति । तस्स य सकम्मजणियं जम्माइजलं कसायपायालं ।
For Private & Personal Use Only
www.jainelibrary.org