________________
११४
आवश्यक-मूलसूत्रम् -२- ४/२१ उस्सरियेवणभरोजह परिहाइ कमसो हुयासुव्व ।
थोविंधनावसेसो निव्वाइतओऽवणीओ व ।।७३ ।। वृ- उत्सारितेन्धनभरः' अपनीतदाह्यसङ्घातः यथा 'परिहीयते' हानिं प्रतिपघते ‘क्रमशः' क्रमेण 'हुताशः' वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमानंभवति, तथा निर्वाति' विघ्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति गाथार्थः ।। अस्यैव दृष्टान्तोपनयमाह
तह विसइंधनहीनो मनोहुयासो कमेण तणुयंमि ।
विसइंधने निरंभइ निव्वाइ तओऽवनीओय ।।७४ ॥ वृ- तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, "क्रमेण' परिपाट्या तनुके कृशे, क्व?-विषयेन्धने' अणावित्यर्थः, किं ?- 'निरुध्यते' निश्चयेन ध्रियते, तथा निर्वाति ततः' तस्मादणोरपनीतश्चेतिगाथार्थः ।।
तोयमिव नालियाए तत्तायसभायणोदरत्थं वा ।
परिहाइ कमेण जहा तह जोगिमनोजलं जाण ।।७५ ॥ वृ- 'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं-लोहभाजनं चतप्तायसभाजनं तदुदरस्थं,वा विकल्पार्थः, परिहीयतेक्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं २ 'जानीहि' अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इतिभावना, अलमतिविस्तरेणेतिगाथार्थः । ‘अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनियोगविधिमभिधातुम् आह
एवं चिय वयज्जोगं निरंभइ कमेण कायजोगंपि ।
तो सेलोसोव्व थिरो सेलेसी केवली होइ ।।७६ ॥ वृ- 'एवमेव' एभिरेव विषादिदृष्टान्तैः किं ?-वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन शैलेशी केवली भवतीति गाथार्थः ।। इह च भावार्थो नमस्कारनियुक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थ स एव लेशतः प्रतिपाद्यते, तत्रयोगानामिदं स्वरूपम्-औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषःकाययोगः, तथा
औदादारिकवैक्रियाहारकशरीव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरी व्यापारहतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति, स चामीषां निरोधं कुर्वन कालतोऽन्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन काले करोति, परिमाणतोऽपि
‘पज्जत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स ।
होति मनोदव्वाइंतव्वावारो य जम्मत्तो ।। तदसङ्खगुणविहीणे समए २ निरंभमाणो सो । मनसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ।। पज्जत्तमित्तबिंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीने समए २ निरंभंतो ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org