________________
१०६
आवश्यक-मूलसूत्रम् -२- ४/२१ एहिकामुष्मिकविरोधिनी, उक्तंच
"रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः । महाव्याघ्यभिभूतस्य, कुपथ्यानाभिलाषवत् ।।" तथा 'द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् ।
कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ।।" तथा-'दृष्टयादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्धः संसार एवोक्तः सर्वज्ञैः सर्वदर्शिभिः ।।' इत्यादि, तथा‘दोसानलसंसत्तो इह लोए चेव दुखिओ जीवो ।
परलोगंमि य पावो पावइ निरयानलं तत्तो ।।' इत्यादि, तथा कषायाः-क्रोधादयः, तदपायाः पुनः
'को हो य मानो य अनिग्गहीया, माया य लोहो यपवड्डमाणा ।
चत्तारि एए कसिणो कसाया, सिंचंतिमूलाई पुनब्भवस्स ।।' तथाऽऽश्रवाः-कर्मबन्धहेतवो मिथ्यात्वादयः तदपायः पुनः
‘मिच्छत्तमोहियमई जीवो इहलोग एव दुक्खाइं । निरओवमाइंपावो पावइ पसमाइगुणहीनो ।।' तथा'अज्ञानं खलु कष्टंक्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थे हितमहितं वा न वेत्ति योनावृत्तो लोकः ।। तथा
'जीवा पाविंति इहं पाणवहादविरइए पावाए । नियसुयधायणमाई दोसे जनगरहिए पावा ।। परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे ।
जीवाण चिरमवाया निरयाइगई भमंताणं ।।' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, क्रियास्तु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः
'किरियासु वट्टमाणा काइगमाईसुदुक्खिया जीवा ।
इह चेव य परलोए संसारपवड्डया भणिया ।।' ततश्चैवं रागादिक्रियासु वर्तमानानामपायानध्यायेत, किंविशिष्टः सन्नित्याह-'वय॑परिवर्जी' तत्र वर्जनीयं वय॑म्-अकृत्यं परिगृह्यते तत्पररिवर्जी-अप्रमत्त इति गाथार्थः ।। उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते तत्र
पयइठिइपएसानुभावभिन्नं सुहासुहविहत्तं ।।।
जोगानुभावजणियं कम्मविवागं विचिंतेज्जा ।। ५१ ॥ वृ-'प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्त'मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिःतासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बोऽभिधीयते, अनुभावशब्देन तु विपाकः, एत च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततश्चैतदुक्तं भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org