________________
अध्ययनं - ४ - [ नि. १२७१]
१०५
ननु या एवंविशेषणविशिष्टा सा बोद्धुमपि न शक्यते मन्दधीमिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह
तत्थ य मइदोब्बलेणं तन्निहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदएणं च ।। ४७ ।।
वृ- 'तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ? - जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धेःसम्यगर्थानवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधःसम्यगविपरीततत्त्वप्रतिपादनकुशलः आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्चासावाचार्यश्च २ तद्विरहतः तदभावतश्च, चशब्दः अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः कचिदुभयवस्तुपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयंधर्मास्तिकायादि तद्गहनत्वेन - गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुञ्चयार्थः, तथा 'ज्ञानावरणोदयेन च ' तत्रज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन चशब्दश्चतुर्थबोधकारणसमुच्चयार्थः, अत्राह - ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहना - प्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषमभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः । । तथा
ऊदाहरणासंभवे य सइ सुठु जं न बुज्झेज्जा ।
सव्वन्नुमयमवितहं तहावि तं चितए अइमं ॥ ४८ ॥
-
बृ-तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः कारको व्यच्चकश्च, उदाहरणंचरितकल्पितभेदं, हेतुश्चोदाहरणंच हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिश्च, चशब्दः पञ्चमषष्ठकारणसमुञ्चयार्थः, 'सति' विघमाने, किं ? - 'यद्' वस्तुजातं 'न सुष्ठु बुद्धयेत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथापि तञ्चिन्तयेन्मतिमा' निति तत्र सर्वज्ञा:तीर्थकरास्तेषां मतं सर्वज्ञमतं वचनं, किं ? - वितथम् - अनृतं न वितथम् अवितथं सत्यमित्यर्थः, ‘तथापि' तदबोधकारणे सत्यनवगच्छन्नपि 'तत' मतं वस्तु वा 'चिन्तयेत' पर्यालोचयेत 'मतिमान्' बुद्धिमानिति गाथार्थः । । किमित्येतदेवमित्यत आह
अनुवकयपराणुग्गहपरायणा जं जिना जगप्पवरा । जियरागदोसमोहा य नन्नहावादिणो तेनं ।। ४९ ।
वृ- अनुपकृते-परैरवर्तिते सति परानुग्रहपरायणा-धर्मोपदेशादिना परानुग्रहोद्युक्ता इति समासः, 'यद्' यस्मात् कारणात्, के ? - 'जिना: ' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते - 'जगत्प्रवराः ' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद रागादिभावाद्वितथवादिनो भवन्त्यत आह-जितानिरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेन' ति तेन कारणेन ते नान्यथावादिन इति, उक्तं च- 'रागाद्वा द्वेषाद्वे" त्यादि । । उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीयम् रागद्दोसकसायासवांदे किरियासु वट्टमाणाणं ।
?
इहपरलोयावाओ झाइज्जा वज्जपरिवज्जी || ५० ॥
वृ- रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान ध्यायेत, यथा रागादिक्रिया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
-