________________
८०
आवश्यक मूलसूत्रम्-१
ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति ?-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगट प्रशस्तं प्रधानमादौ वा वचनं प्रवचनद्वादशाङ्गं गणिपिटकं तदर्थं, कथमिदं भवेदितियावत्, प्रवक्तीति वा प्रवचनं सङ्घस्तदर्थमिति गाथार्थः ॥ प्रयोजनान्तरप्रतिपिपादयिषयेदमाहनि. (९१) घित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव ।
एएहिं कारणेहिं जीयंति कयं गणहरेहिं ।। वृ-'ग्रहीतुंच' आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्दं, कुसुमसंघातवत्; 'चः' समुच्चये, एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणनं-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, ‘सुखं' इत्यनुवर्तते, 'चः' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीयं, तत्र दानं-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्तौ असंशयार्थं विद्वत्सन्निधौ स्वविवक्षासूचकं वाक्यमिति, “एभिः कारणैः' अनन्तरोक्तैर्हेतुभूतैः ‘जीवितं' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीयं' ति प्राकृतशैल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः । आह
तीर्थकरभाषितान्येव सूत्रं, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपनगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेव अभिधत्ते, न वितरजनसाधारणं ग्रन्थराशिमिति, अत आहनि. (९२) अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं ।
सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ । वृ-गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयत-कश्चिदाह- अर्थोऽनभिलाप्यः, तस्य अशब्दरूपत्वात्। अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुण' सूक्ष्मं बह्वर्थं च, नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा' । आह-शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थे, गणभृतोऽपिच शब्दात्मकमेव ग्रन्थन्ति, कः खल्वत्र विशेष इति, उच्यते, गाथा संबन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् । आह-तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते - नि. (९३) सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ।
तस्सवि सारो चरण सारो चरणस्स निव्वाणं ।। वृ-सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपयर्यन्तमित्यर्थः, यावच्छब्दादेव तु द्व्यकद्वादशभेदं, 'तस्यापि' श्रुतज्ञानस्य 'सारः' फलं प्रधानतरं वा, चारश्चरणं भावे ल्युट्प्रत्ययः, चर्यंते वा अनेनेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org