________________
उपोद्घातः - नि. ८८]
___५९ सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अतः पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिकामात्रमेवैतदिति गाथार्थः ।। यदुक्तं 'अर्थपृथक्त्वस्य तैः कथितस्येति' तीर्थकरगणधरैः, इदानीं तेषामेव शीलादिसंपत्समन्वितत्वप्रतिपादनायाहनि. (८९) तवनियमनाणरुक्खं आरूढो केवली अमियनाणी ।
तो मुयइ नाणबुट्ठि भवियजनविबोहणट्ठाए ॥ वृ-रूपकमिदं द्रष्टव्यं, तत्र वृक्षो द्विधा-द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानां गन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुञानाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽप्यायोज्यं । तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तं, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु नोइन्द्रियनियम इति, ज्ञानं केवलं संपूर्णं गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णताख्यापनायाह-संपूर्णं केवलं अस्यास्तीति केवली, असावपि चतुर्विधः-श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा श्रुतावधिमनः पर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह-अमितज्ञानी, 'ततो' वृक्षात् मुञ्चति 'ज्ञानवृष्टि' इति कारणे कार्योपचारात् शब्दवृष्टि, किमर्थं ? -भव्याश्च त जनाश्च भव्यजनाः तेषां विबोधन तदर्थं तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तत्त्वकथनमनर्थकं, प्रयोजनविरहात्; सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्यविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवत्ः तीर्थकरनामकर्मविपाकानुभावात् तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोधर्मर्मदेशनक्रिया विभिन्नस्वभावेषु प्राणिषु तत्स्वाभाव्यात् विबोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्तं च वादिमुख्येन
त्वाद्वाक्यतोऽपि केषाञ्चिदबोध इति मेऽद्भुतम् । भानोर्ममरीचयः कस्य, नाम नालोकहेतवः ?॥
न चाद्भुतमुलूकस्य, प्रकृत्या कुिष्टचेतसः । स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः ।। इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्झो न च रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः ॥ नि. (९०) तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं ।
तित्थयरभासियाइं गंथंति तओ पवयणट्ठा । वृ- ‘तां' इति तां ज्ञानकुसुमवृष्टि, बुद्धिमयेन-बुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, ‘गणधराः' प्रागुक्ताः ‘ग्रहीतुं' आदातुं 'निरवशेषां' संपूर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org