________________
उपोद्घातः - [ नि. ९३]
चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनात् इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्थमुपन्यास इति, अलं विस्तरेण, 'सारः फलं 'चरणस्य' संयमतपोरूपस्य, निर्वृतिनिर्वाणंअशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापि नियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, अत उक्तं- सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः । तथा चाह नियुक्तिकारः - सुअनाणंमिवि जीवो वट्टंतो सो न पाउणइ मोक्खं ।
नि. (९४)
जो तवसंजममइए जोए न चएइ वोढुं जे ॥
६१
वृ-गमनिका -‘श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपः संयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वा, प्रयोगश्च - 'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्तियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रिया-शून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, 'जे' इति पादपूरणे, 'इ जेराः पादपूरणे' इति वचनात् ॥ तथा चाह
नि. (९५)
जह छेयलद्धनिज्जामओवि वाणियगइच्छियं भूमिं । वाएण विना पोओ न चएइ महण्णवं तरिउं ॥
वृ- येन प्रकारेण यथा, 'छेको' दक्षः, लब्धः - प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि वणिज्ज इष्टा वणिगिष्टा तां भूमिं महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः ||
नि. (९६)
तह नाणलद्धनिज्जामओवि सिद्धिवसहिं न पाउणइ । निउणोवि जीवपोओ तवसंजममारुअविहूणो ||
वृ- तथा श्रुतज्ञानमेव लब्धो निर्यामको येन- जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधारधिष्ठितोऽपि शेषं निगदसिद्धं, किन्तु 'निपुणोऽपि' पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थं निपुणग्रहणं, तस्मात् तपः संयमानुष्ठाने खल्प्रमादवता भवितव्यमिति गाथाद्वयार्थः । तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः संसारसागराओ उब्बुड्डो मा पुणो निबुड्डिज्जा । चरणगुणिवप्पीणो बुड्ड सुबहुपि जाणंतो ||
नि. (९७)
वृ- पदार्थस्तु दृष्टन्ताभिधानद्वारेणोच्यते यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मकनिरिछद्रपटलाच्छादितोदकान्ध-कारमहाह्रदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org