________________
५५
उपोद्घातः - [नि. ८४] नीमिति गाथार्थः । नि. (८५) कप्पस्स य निज्जुत्ति ववहारस्सेव परमणिउणस्स ।
सूरिअपन्नत्तीए वुच्छं इसिभासिआणं च । वृ-तथा कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात्, तथा च न मन्वादिप्रणीतव्यवहारवयंसंकोऽयं, "सच्चपइण्णा खु ववहारा" इति वचनात्, तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः ॥ नि. (८६) एतेसिं निजृत्तिं वुच्छामि अहं जिनोवएसेणं ।
आहरणहेउकारणपयनिवहमिणं समासेणं ॥ वृ. “एतेषां' श्रुतविशेषाणां, नियुक्तिं वक्ष्ये अहं जिनोपदेशेन, न तु स्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत्, साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथमं दृष्टान्ताभिधानं न्यायप्रदर्शनार्थं कृचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत्, तथा कचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वः विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायि नियुक्तिकारेण
"जिनवयणं सिद्धं चेव भण्णई कत्थवी उदाहरणं । ____ आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा । इत्यादि" कारणमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात्; नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायकं पदमाहरणपदं, एवमन्यत्रापि भावनीयं । आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः-संघातो यस्यां निर्युक्तौ सा तथाविधा तां ‘एतां' वक्ष्यमाणलक्षणां अथवा प्रस्तुतां ‘समासेन' संक्षेपेणेति व्याख्यातं गाथात्रयमिति ॥
तत्र ‘यथोद्देशस्तथा निर्देश' इति न्यायात् आदावधिकृताऽऽवश्यकाद्या ध्ययनसामायिकाख्योपोद्घातनियुक्तिमभिधित्सुराहनि. (८७) सामाइयनिजृत्तिं वुच्छं उवएसियं गुरुजनेनं ।
आयरियपरंपरएण आगयं आनुपुब्बीए ॥ वृसामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां 'वक्ष्ये' अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता तां, केन? - 'गुरुजनेन' तीर्थकरणगणधरलक्षणेन, पुनरुपदेशनकालारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको द्विधा-द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयनं, अत्र चासंमोहार्थं कथानकं गाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेव आचार्यपारम्पर्येणागतेति, कथम् ?, 'आनुपुर्व्या' परिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org