SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१ अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥ वृ-तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भागः-अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, महाँश्चासौ मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीरं' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।" अमराश्च नराश्च अमरनरास्तेषां राजानः इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः-पूजितः तं, तीथर्करं 'अस्य' वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः ।। एवं तावदर्थवक्तुर्मङ्गलार्थं वन्दनमभिहित, इदानीं सूत्रकर्तुप्रभृतीनामपि पूज्यत्वात् वन्दनमाहनि. (८२) इक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरणवंसं वायगवंसं पवयणं च ॥ वृ- “एकादश'इति संख्यावाचयः शब्द, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान् कस्य ?'प्रवचनस्य' आगमस्येत्यर्थः, किं ?-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्वं निरवशेषं, गणधराः-आचार्यास्तेषां वंशः-प्रवाहस्त, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा प्रवचनं च' आगमं च, वन्द इति योगः । आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोऽप्यानयनद्वारेणोपकारित्वात् वन्द्य एवेति, प्रवचनं तु साक्षाद्वृत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः ॥ इदानीं प्रकृतमुपदर्शयन्नाहनि. (८३) ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निजुत्तिं कित्तइस्सामि ।। वृ- 'तान्' अनन्तरोक्तान् तीर्थकरादीनं 'वन्दित्वा' प्रणम्य शिरसा' उत्तमाङ्गेन, किम् ? नियुक्ति कीर्तयिष्ये, कस्य ? -'अर्थपृथक्त्वस्य' तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तद्भावः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकवद्भावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्थं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरदिभिः ‘कथितस्य' प्रतिपादितस्य, कस्य ? -श्रुतज्ञानस्य भगवत्ः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां 'कीर्तयिष्ये' प्रतिपादयिष्ये इति गाथार्थः ॥ आह-किमशेषश्रुतज्ञानस्य ?, न, किं तहिं ?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाहनि. (८४) आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निजृत्तिं वुच्छामि तहा दसाणं च ।। वृ-आसां गमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद् यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयं, अथवा-' अध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्ति वक्ष्ये, तथा दशानां च संबन्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy