________________
४५
पीठिका - [नि. ७७] तीर्थकरनामकर्मोदयात्, ततश्च ध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्यतिमोहोऽव्युत्पन्नबुद्धीनानामित्यतस्तद्विनिवृत्त्यर्थमाहनि. (७८) केवलनाणेणत्थे नाउं जे तत्थ पन्नवणजोगे।
ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं ॥ वृ-इह तीर्थकरः केवलज्ञानेन ‘अर्थान्' धर्मास्तिकायादीन् मूर्त्तामूर्तान् अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्च तद्भावात्, सर्वसुद्धौ देशशुद्ध्यभावादित्यर्थः । ये 'तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः 'तान् भाषते' तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात्, वाचः क्रमवर्त्तिवाच्च, किं तहिं ?, योग्यानेव गृहीतृशक्तयपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च श्रुतं भवति शेषं, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतुणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति'वयजोगसुयं हवइ तेसिं' स वाग्योगः श्रुतं भवति तेषां' श्रोतृणां, भावश्रुतकारणत्वादित्यभिप्रायः। अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ॥
सत्पदप्ररूपणायां च गतिमङ्गीकृत्य सिद्धगतौ मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रसकायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्लेश्यालेश्ययोः सम्यग्द्दष्टिषु केवलज्ञानिषु केवलदर्शिषु संयतनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः बादरनोबादरयोः, संज्ञिषु नोसंज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्ति प्रति भवस्थकेवलिनो भव्यता; चरमाचरमयोः, चरमः-केवली अचरमः-सिद्धः भवान्तरप्राप्त्यभावात्, केवलं द्रष्टव्यमिति । पूर्वप्रतिपन्नप्रतिपद्यमानयोजना च स्वबुद्ध्या कर्तव्येति । 'द्रव्यप्रमाणं' तु प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, क्षेत्रं जघन्यतो लोकस्यासंख्येयभागः, उत्कृष्टतो लोक एवं, केवलिसमुद्घातमधिकृत्य, एवं स्पर्शनाऽपि, ‘कालतः' साद्यमपर्यन्तं, 'अन्तरं' नास्त्येव, प्रतिपाताभावात्, ‘भागद्वारं मतिज्ञानव द्रष्टव्यं, 'भाव' इति क्षायिके भावे 'अल्पाहुत्वं' मतिज्ञानवदेव । उक्तं केवलज्ञानं, तद्भिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति । एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तं, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, नि. (७९) इत्थं पुन अहिगारो सुयनाणेणं जओ सुएणं तु ।
सेसाणमप्पणोऽविअ अनुओग पईवदिटुंतो ।। वृ- अत्र पुनः पकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव 'शेषाणां' मत्यादिज्ञानानां आत्मनोऽपि च 'अनुयोगः' अन्वाख्यानं, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपटष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः ।। मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पीठिकायाः नियुक्तिः
एवं हारिभद्रीय टीका परिसमाप्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org