SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१ नि. (७६) मनपज्जवनाणं पुन जनमनपरिचिंतियत्थपायडणं । मानुसखित्तनिबद्धं गुणपच्चइयं चरित्तवओ ॥ वृ-'मनः पर्यायज्ञानं' प्राक्निरूपितशब्दार्थं, पुनः शब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिक-प्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वााम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनः परिचिन्तितः जनमनः परिचिन्तितश्चासावर्थश्चेति समासः, तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, मानुषक्षेत्रं-अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न तद्बहिर्व्यवस्थितप्राणिमनः परिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः । गुणा:-क्षान्त्यादयः त एव प्रत्ययाःकारणानि यस्य नगुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमीषध्यादिऋद्धि प्राप्तस्यैवेति गाथार्थः ॥ इदं द्रव्यादिभिनिरूप्यते-तत्र द्रव्यतो मनः पर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनो-भावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनः पर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभागं रूष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्यास्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः?, मनसो मूर्तोमूर्तद्रव्यालम्बनत्वात्, छद्मस्थस्य चामूर्तदर्शनविरोधादिति. सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः। नानात्वं चानाहारकापर्याप्तको प्रतिपद्यमानौ न भवतः, नापीतरौ । उक्तं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयत्राहनि. (७७) अह सव्वदव्वपरिणामभावविण्णत्तिकारणमनंतं । सासयमप्पडिवाइ एगविहं केवलन्नाणं ॥ वृ-इह मनः पर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक् केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपदर्शनार्थमथशब्द इति, उक्तं च-“अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु"। सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाःप्रयोगविस्त्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनन्तरं तस्य विशेषण ज्ञपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः-परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वद्रव्यज्ञेत्रकालभावविषयं तत्, क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भवतीति शाश्वतं, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आह-अप्रतिपात्येतावदेवास्तु, शश्वतमित्येतदयुक्तं, न, अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । “एकविधं' एकप्रकारं, आवरणाभावात् क्षयस्यैकरूपत्वात्, 'केवलं' मत्यादिनिरपेक्षं 'ज्ञान' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थे देशनां करोति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy