SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पीठिका - [नि.७०] आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्त्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वासीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनः पर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुर्दशपूर्वविदः । अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः । 'चक्रवर्तिनः' चतुर्दशरत्नाधिपाः षटखण्डभरतेश्वराः । 'बलदेवाः' प्रसिद्धा एव । 'वासुदेवाः' सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥ इह वासुदेवत्वं चक्रवर्त्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारःनि. (७१) सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । __ अंछंति वासुदेवं अगडतडंमी ठियं संतं ॥ नि. (७२) धित्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायंति ॥ नि. (७३) दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि, अगडतडंमी ठियं संतं ॥ नि. (७४) धित्तूणं संकलं सो, वामगहत्थेण अंछमाणाणं । भुजिज्ज वा लिपिज्ज व, चक्कहरं ते न चायति ॥ नि. (७५) जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा, अपरिमियबला जिनवरिंदा ॥ वृ- आसां गमनिका-इह वीर्यांन्तरायकर्मक्षयोपशमविशेषाद्बलातिशयो वासुदेवस्य संप्रदय॑ते-षोडश राजसहस्त्राणि ‘सर्वबलेन' हस्त्यश्वरथपदातिसंकुलेन सह शृङ्खलानिबद्धं 'अंछंति' देशीवचनात् आकर्षन्ति वासुदेवं 'अगडतटे' कूपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन ‘अंछमाणाणं' ति आकर्षतां भुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन् मधुमथनं तेन शक्रुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्त्तिनस्त्विदं बलं द्वौ षोडशकौ, द्वानिशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्त्तिनो वासुदेवाद् द्विगुणद्धिख्यापनार्थं, राजसहस्त्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्त्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति वाक्यशेषः । यत् केशवस्य तु बलं तद्दिगुणं भवति चक्रवर्तिनः, 'ततः' शेषलोकबलाद् ‘बला' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेऽपरिमितबलाः, क एते? -जिनवरेन्द्राः, अथवा ततः-चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह-अपरिमितबला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । इदानीं मनः पर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चक-क्रमायातमभिधित्सुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy