________________
४२
आवश्यक मूलसूत्रम् - १
नि. (६८)
गइनेरइयाईया, हिट्ठा जह वण्णिया तहेव इहं । इड्डी एसा वणिजइत्ति तो सेसियाओऽवि ॥
वृ- तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम् - इह ये मति प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपक श्रेण्यन्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मते, विकलेन्द्रियासंज्ञिशून्या इति, उक्तमवधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेना संख्येयं क्षेत्रं, एवं कालमपि, भावतस्त्वनन्तान् भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावर्ण्यते' गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः । तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाह
नि. (६९)
आमोसहि विप्पोसहि खेलोसहि जल्लमोसही चेव । भिन्नसो उज्जुमइ, सव्वोसहि चेव बोद्धव्वो ।
वृ- आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामर्थौषधिः- साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विट्खेलजल्लेष्वपि योजना कर्त्तव्येति, तत्र 'विड्' उच्चारः 'खेल:' श्लेष्मा 'जल्लो' मल इति, भावार्थः पूर्ववत्, सुगन्धाश्चैते भवन्ति । तथा यः सर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्न श्रोताः, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्वमपि लब्धिरेव । तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष एव लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव । तथा सर्व एव विण्मूत्रकेशनखादया विशेषाः खल्वौषध्यो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सर्वौषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या इति गाथार्थः ।।
नि. (७०) चारण आसीसविस केवली य मननाणिणो य पुव्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवाय ॥
वृ- अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः विद्याचारणा जङ्घाचारणाश्च, तत्र जङ्घाचारणः शक्तिः किल रुचकवरद्वीपगमनशक्तिमान् भवति, स च किलैयोत्पातेनैव रूचकवरद्वीपं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुकवनं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन यतो गतः । विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् भवति, स त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरं, तृतीयेन त्वेकेनैवाऽऽगच्छति यतो गतः, एंवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति । तथा आस्यो दंष्ट्राः तासु विषमेषामस्तीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org