________________
पीठिका - [ नि. ६६ ]
४१
आह-अवधेरबाह्या भवनतीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् 'पश्यनित सर्वतः ' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवं, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वाद्, अतो नातिरिच्यत् इति, 'शेषाः ' तिर्यङ्नरा 'देशेन' इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा एवेति गाथार्थः ॥ अथवा अन्यथा व्याख्यायते
नारकदेवतीर्थंकरा अवधेरबाह्या भवन्तीति, किमुक्तं भवति ? - नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशयः किं ते तेन सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह-पश्यन्ति सर्वत एव । आह-यद्येवं 'पश्यन्ति सर्वतः' इत्येतावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थकं, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह-ननु नाकरदेवानां भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तप्रदर्शनार्थमवघेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टं । आह- यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य निष्ठत्वात्, केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः ॥ एवं देशद्वारावयवार्थम-भिधायेदानीं क्षेत्रद्वारं विवुवूर्षुराहनि. (६७) संखिज्जमसंखिज्जे, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥
वृ-तत्र संबद्धश्चसंबद्धश्च अवधिर्भवति, किमुक्तं भवति ? - कश्चिद् दृष्टरि संबद्धो भवति, प्रदीपप्रभावत्, कश्चिच्च असंबद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा । पूर्णंः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थः - असंबद्धोऽवधिः क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाध्या चिन्त्यते - अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येययोऽवधिरिति चत्वाराऽपि विकल्पाः संभवन्ति, संबंद्धे तु विकल्पाभावः । तथा 'लोके' चतुदैशज्वात्मके पञ्चास्तिकायवति, 'अलोके च' केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोकेअलोके च संबद्धः, कथम् ? - पुरुषे संबद्धो लोके च लोकप्रमाणावधिः, पुरुषे न लोके - देशतोऽभ्यन्तरावधिः, न पुरुषे लोके शून्यो भङ्गः, न लोके न पुरुषे - बाह्यावधिः, इयं भावना - लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु लोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः ।। इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org