________________
आवश्यक मूलसूत्रम् - १
वृ- इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - तच तदुभयं च तदुभयं उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादी विषये' इत्यनुवर्त्तते, किं तर्हि ? - उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारर्थत्वात् । अयं भावार्थः- प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति 'भ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुञ्चनप्रसारणवदिति गाथार्थः ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज मनोदव्वे, भागो लोगपलियरस' इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह -
नि. (६४)
४०
दव्वाओ असंखिजे, संखेज्जे आवि पज्जवे लहइ । दो पजवे दुगुणिए, लहइ य एगाउ दव्वाउ ॥
वृ- परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् संख्येयाश्चापि मध्यमतो लभते प्राप्नोतिपश्यती त्यनर्थान्तरं, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ 'लभते च ' पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति-वर्णगन्धरसस्परर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान्, सामान्यतस्तु द्रव्यानन्तत्वादेव अनन्तान् पश्यतीति गाथार्थः ॥ साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽहसागारमनागारा, ओहिविभंगा जहन्नगा तुल्ला । उवरिमवेज्जे उ, परेण ओही असंखिजे ||
नि. (६५)
वृ- तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते, यः पुनः सामान्यग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गौ जघन्यकौ तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मिथ्याध्ष्टेस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टवयः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमग्रैवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गौ जघन्यादारभ्य तुल्याविति, न तूत्कृष्टी, ततः परेण' इति परतः अवधिरेव भवति, मिथ्यादृष्टीनां तत्रोपपाताभावात्, स च क्षेत्रत्ः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥ इदानीं देशद्वारावयार्थं प्रचिकटयिषुरिदमाह
नि. (६६)
नेरइयदेवतित्यंकरा य ओहिस्सऽ बाहिरा हुंति ।
पासंति सव्वओ खलु, सेसा देसेन पासंति ॥
वृ- 'नारकाः ' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं - अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः ' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सर्वास्वेव दिग्विदिविति, सर्वत एवेत्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International