________________
पीठिका - [ नि. ५९ ]
णामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्यायमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? -यस्मात्स्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात्, विचित्रावधिनिबन्धनाच्चेति गाथार्थः । एवं तावच्चलद्वारं; इदानीं तीव्रमन्दद्वारावयवार्थे व्याचिख्यासुरिदमाहफड्डा य असंखिज्ज, संखेज्जा यावि एगजीवस्स । कफड्डुवओगे, नियमा सव्वत्थ उवउत्तो ॥
नि. (६०)
वृ- इह फडकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफडकानीव फडकानि तानि चासंख्येयानि संख्येयानि चैकजीवस्य तत्रैकफडकोपयोगे सति नियमात् ‘सर्वत्र' सर्वैः फड्डुकैरुपयुक्ता भवन्ति, एकोपयोगत्वाज्जीवस्य लोचनद्वयोपयोगवद्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह- तीव्रमन्दद्वारं प्रकान्तं विहाय फड्डुकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फड्डकौ तीव्रौ, तथेतरौ मन्दी, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥
नि. (६१)
३९
फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ||
वृ- फड्डुकानि - पूर्वोक्तानि तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह - आनुगामुकाप्रतिपातिफड्डुकयोः कः प्रतिविशेषः ?, अनानुगामुकप्रतिपातिफड्डुकयोर्वेति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामु कं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एव, नेत्थमनानुगामुकमिति गाथार्थः ॥
व्याख्यातं तीव्रमन्दद्वारं, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहनि. (६२) बाहिरलंभे भजे, दव्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ।।
वृ- तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा विच्छिन्नः स बाह्यः तस्य लाभो बाह्यलाभः, अवधिः पक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-- बाह्यावधिप्राप्तौ सत्यां ‘भाज्यो' विकल्पनीयः, कोऽसौ ? - उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति ?, आह-'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्रकालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थ:- एकस्मिन् समये द्रव्यादौ विषये बह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽ न्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः नि. (६३) अब्भितरलद्धीए, उ तदुभयं नत्थि एगसमएणं । उप्पा पडिवओऽविय, एगयरो एगसमएणं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org