________________
३८
आवश्यक मूलसूत्रम्-१
पुरुषैकलोचनोपघातवत्, चशब्दः समुच्चयार्थः, मिश्रश्च मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविवधस्त्रिविध इति गाथार्थः ॥
व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वारावयवार्थप्रतिपादनाय गाथाद्वयमाहनि. (५७) खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं ।
दवे भिन्नमुहत्तो, पज्जवलंभे य सत्तट्ठ॥ वृ-अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य संबन्धि तावदवस्थानमुच्यते-तत्राविचलितः सन् 'त्रयसिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्त्वेवकारार्थः, स चावधारणे, त्रयस्त्रिंशदेव, 'कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिपरिणामः' । तथा 'दव्वे' इति द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः, भिन्नश्चासौ मुहूर्त्तश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्ती चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्त्तिनो गुणाः शुकृत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, यथोत्तरं च द्रव्य गुणपर्यायाणा सक्ष्मत्वात् स्तोकोपयोगता इति गाथार्थः ॥ नि. (५८) अद्धाइ अवठ्ठाणं, छावट्ठी सागरा उ कालेणं ।
उक्कोसगं तु एयं, इक्को समओ जहन्नेणं ॥ वृ-इह लब्धितोऽवस्थानं चिन्त्यते-अद्धा-अवधिलब्धिकालः अत्र अद्धायाः-कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ षट्षष्टिसागरा' इति षट्षष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात् मनागधिकानि ‘कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग तोऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः ॥
एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽहनि. (५९) वुड्डी वा हानी वा, चउव्विहा होइ खित्तकालाणं ।
दव्वेसु होइ दुविहा, छविह पुन पज्जवे होइ । कृतत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धिनिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा – “असंखेनभागवूड्डी वा संखेज्जभागवुड्डी वा असंखेज्जगुणवुड्डी वा," एवं हानिरपि, न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिर्वा, एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिानिर्वा, कथम् ?-अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिा, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः । तथा षड्विधा ‘पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धि हानिर्वेति वर्त्तते, पर्यायानन्त्यात्, कथम् ? अनन्त भागवृद्धि: असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्याया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org