________________
आवश्यक मूलसूत्रम्-१
आवश्यक सूत्रे - उपोद्घातः) वृ- साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं-'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि' । आह-नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वााददोषः । आह-य द्यावश्यकस्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च, शेषास्त्वनादेशा विकल्पा इति । आह-ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्याऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादौ नन्धध्ययनार्थकथनं कर्त्तव्यं, अकृते चाशङ्का संभवति । आह-मङ्गलार्थं शास्त्रादाववश्यमेव नन्द्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानभिधानमात्रष्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का भवति । किं च-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरंच नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह-यद्येवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोगं इति, उच्यते, शिष्यानुग्रहार्थ त्वयं नियम इत्यपवादप्रदर्शनार्थं वा, एतदुक्तं भवति-कदाचित्पुरुषाद्यपेक्षया उक्रमेणापि अन्यारम्भेऽपि चान्यद् व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यकश्रुतस्कन्धः', तभेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थं आहोश्चित् पलाशभिधानवद् अयथार्थे उत डित्थाद्यभिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थं ततस्तदुपादेयं, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति।।
तत्र ‘आवश्यकं' इति कः शब्दार्थः ?, अवश्यं कर्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुणशून्यमात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, इदं च प्रपञ्चतः सूत्रादवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्कं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यक त्रिविधं-ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपि त्रिविधं-लौकिकलोकोत्तरकुप्रावचनिकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणं भावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं- वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयत्थत्तणओ पायच्छित्तं देंतो भणति 'अहो इमो धम्मसद्धिओ साहू !, सुहं पडिसेविउं, दुक्खं आलोएउं, एवं नाम एस आलोएइ अगूहंतो, अतो असढत्तणओ सुद्धोत्ति'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org