________________
अध्ययनं -१ - [ नि. १०४५]
४२५
एष उक्तोऽष्टमः । इदानीं नवमः न करेइ मणेण एक्को १ न कारवेइ बितिओ २ करें नानुजाणइ एस तइओ, एवं वायाए बितियं काएणवि होइ तितयमेव, नवमोप्युक्तः इदानीमागतगुणनं क्रियते
'लद्धफलमाणमेअं भंगा उ हवंति अउणपन्नासं । तीयागगयसंपइगुणियं कालेण होइ इमं ॥१॥ सीयालं भंगसयं कह ? कालतिएण होइ गुणणाओ । तीयस्स पडिक्कमणं पञ्चुप्पन्नस्स संवरणं ॥२॥ पच्चक्खाणं च तहा होइ य एसस्स एव गुणणाओ । कालतिएणं भणियं जिनगणहरवायएहिं च ||३||
एवं तावद् गृहस्थप्रत्याख्यानभेदाः प्रतिपादिताः, साम्प्रतं साधुप्रत्याख्यानभेदान् सूचयन्नाह - 'तिविहं तिविहेणं' त्ति अयमत्र भावार्थ:-त्रिविधं त्रिविधेनेत्यनेन सर्वसावद्ययोगः प्रसिद्ध एव हिंसादिः, तं स्वयं सर्वं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एकैकं करणात्रिकेनमनसा वाचा कायेनेति नव भेदाः, अतीतानागतवर्तमानकालत्रयसम्बद्धाश्च सप्तविंशतिरिति, इदं च प्रत्याख्याने भेदजालं 'समिइगुत्तहिं' ति समितिगुप्तिषु सतीषु भवति, समितिगुप्तिभिर्वा निष्पद्यते, तत्रेर्यासमितिप्रमुखाः प्रवीचाररूपाः समितयः पञ्च गुप्तयश्च प्रवीचाराप्रवीचाररूपा मनोगुप्याद्यास्तिस्त्र इति उक्तं च
'समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो । कुसलवइमुदीरंतो जं वइगुत्तोऽवि समिओऽवि ||१||
अन्ये तु व्याचक्षते - किलैता अष्टौ प्रवचनमातरः सामायिकसूत्रसङ्ग्रहः, तत्र 'करेमि भंते ! सामाइयं'ति पंच समिईंओ गहिआओ, 'सव्वं सावज्जं जोगं पञ्चक्खामि ति तिन्नि गुत्तीओ गहियाओ, एत्थ समिईओ पवत्तणे निग्गहे य गुत्तीओत्ति, एयाओ अट्ठ पवयणमायाओ जाहिं सामाइयं चोद्दसय पुव्वाणि मायाणि, माउगाओत्ति मूलं भणियंति होइ ।। इहैव प्रायः सूत्रस्पर्शनिर्युक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्यानेनाऽऽद्यन्तयोरप्या-क्षेपादिदमाह'सुत्तप्फासियणिनञ्जुत्तिवित्थ - रत्थो गओ एवं त्ति सूत्रस्पर्शनियुक्तिविस्तरार्थो गतः, 'एवम्' उक्तेन प्रकारेणेति गाथार्थः ॥ साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति दर्शयन्नाहनि. (१०४६) सामाइयं करेमी पच्चक्खामी पंडिक्कमामित्ति । पच्चुप्पन्नमणागयअईअकालाण गहणं तु ।।
वृ- सामायिकं करोमि तथा प्रत्याख्यामि सावद्यं योगमिति, तथा प्रतिक्रमामीति प्राकृतस्य, इदं हि यथासमयमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च- 'अईयं निंदइ पडुप्पन्नं संवरेइ अनागयं पच्चक्खाइ 'त्ति गाथार्थः ॥ साम्प्रतं तस्य भदन्त ! प्रतिक्रमामीत्येतद् व्याख्यायते—तत्र ‘तस्ये' त्यधिकृतो योगः संबध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते किमर्थमिति ?, आह-प्रयोजनार्थं षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणाऽवयवलक्षणा वा, योऽसौ योगस्त्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org