________________
-
४२६
आवश्यक मूलसूत्रम्-१-१/२ कालविषयस्तस्यातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धयन्ति, तन युज्यते, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च, अविशिष्टमपि संबध्य पुनर्विशेषेऽवस्थापनीयस्तच्छब्द इति ग्रन्थगुरुता, यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति न वक्तव्यम्, इह पुनरुक्तप्रसङ्गात्, यस्मादस्य प्रतिक्रमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं, तच्च भूतं सावधयोगं मुक्त्वा नान्यत् कर्म भवितुमर्हति, तस्मात्तस्येत्यवयवलक्षणया षष्ठ्या सम्बन्धः ।। आह-यद्येव पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयतिनि. (१०४७) तिविहेणंति न जुत्तं पडिपयविहिणा समाहि जेण ।
. अत्थविगप्पणयाए गुणभावणयत्तिको दोसो ?॥ वृ-'त्रिविधं त्रिविधेन'त्यत्र त्रिविधेनेत्ययुक्तमिति, अत आह–'प्रतिपदविधिना समाहितं येन' यस्मात् प्रतिपदमभिहितमेव, ‘मनसा वाचा कायेने ति, अत्रोच्यते, अर्थविकल्पनया गुणभावनयेति वा को दोषः ?, एतदुक्तं भवति-अर्थविकल्पसङ्ग्रहार्थ न पुनरुक्तम्, अथवा गुणभावना पुनः पुनरभिधानाद्भवतीति न दोषः, अथवा मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमि न कारयामि नानुजानामीति 'यथासङ्ख्यमनुदेशः समानाना' मिति यथासङ्ख्यकमनिटं मा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्राप्ययमेव प्रायः परिहार इति गाथार्थः ।। इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'तस्य भदन्त ! प्रतिक्रमामी'त्यत्र भदन्तः, पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्धयर्थमामन्त्रयत इति अत्राऽऽह-ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते, एवमर्थं चादौ प्रयुक्त इत्यतः किं पुनरनेनेति ?, अत्रोच्यते, अनुवर्तनार्थमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषा-अनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तर्हि ?, यत्नाद्भवन्ति, ‘स चायं यत्नः पुनरुच्चारण'मिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारेण
__'सामाइयपच्चप्पणवयणो वाऽयं भदंतसद्दोत्ति ।
सव्वकिरियावसाणे भणियं पच्चप्पणमनेनं ॥१॥ इति कृतं प्रसङ्गेन, प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृममभिधीयते, तच्च द्विधा-द्रव्यतो भावतश्च, तथा चाह नियुक्तिकारःनि. (१०४८) दव्बंमि निण्हगार्ह कुलालमिच्छंति तत्थुदाहरणं ।
भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं ।। वृ- द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाहनिह्नवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, तच्चेदम्-एगस्स कुंभकारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लओ तस्स कुंभगारस्स कोलालाणि अंगुलिधणुहएणं पाहाणएहिं विंधइ, कुंभगारेण पडिजग्गिउं दिट्ठो, भणिओ य-कीस मे कोलालाणि काणेसि?,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only