________________
अध्ययनं-१ - [नि.१०४०]
४२१ होइ खित्तंमिति निर्विषयादि च भवति क्षेत्र इति, तत्र निर्विषयस्याऽऽदिष्टस्य क्षेत्रप्रत्याख्यानम्, आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, "भिक्षादीनामदानेऽति (ग) छे' ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, आदिशब्दात् वस्त्रादिपरिग्रहः, तेषामदाने सत्यतिगच्छेति वन्नमतीच्छेति वेति प्रत्याख्यानं, 'भावे पुणो दुविहं' ति भाव इति द्वारपरापर्शः, भावप्रत्याख्यानं पुनर्द्विविधं, तत्र भावप्रत्याख्यानमिति भावस्य-सावद्ययोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा-निर्वाणार्थं वा भाव एव वा-सावद्य-योगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः । साम्प्रतं वैविध्यमेवोपदर्शयन्नाहनि. (१०४१)सुअ नोसुअ सुअ दुविहं पुव्व १ मपुव्वं २ तु होइ नायव्वं ।
नोसुअपच्चक्खाणं मूले १ तह उत्तरगुणे अ२॥ व- 'सुयणोसुय'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुयं दुविहंति श्रुतप्रत्याख्यानं द्विविधं, द्वैविध्यमेव दर्शयति-'पुब्वमपुव्वं तु होइ नायव्वंति पूर्वश्रुतप्रत्यख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्व श्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपञ्चक्खाणं ति नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, 'मूले तह उत्तरगुणे य'त्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्वं, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः ॥ इह च वृद्धसम्प्रदायः ‘पञ्चक्खाणे उदाहरणं रायधूयाएवरिसं मंसं न खाइयं, पारणए अणेगाणं जीवाणं घाओ कओ, साहूहिं संबोहिया, पव्वइया, पुव्वं दव्वपच्चक्खाणं पच्छा भावपञ्चक्खाणं जातमिति कृतं प्रसङ्गेन । प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावज्जीवतयेति व्याख्यायते-इह चाऽऽदौ भावार्थमेव-आभिधित्सुराहनि. (१०४२) जावदवधारणमि जीवणमवि पाणधारणे भणिअं।
. आपाणाधारणाओ पावनिवित्ती इहं अत्थो । वृ-यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात्, ततश्चाप्पाणधारणात्-प्राणधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्त न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादिपूत्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः ॥ इह च जीवन जीव इति क्रियाशब्दोऽयं, न जीवतीति जीव आत्मपदार्थः, जीवनं तु प्राणधारणं, जीवनं जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादौ निरूपयन्नाहनि. (१०४३)नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे अ६ भोगे अ७।
संजम ८ जस ९ कित्तीजीविअंच १० तं भण्णई दसहा ॥ वृ- नामजीवितं स्थापनाजीवितं द्रव्यजीवितम् ओघजीवितम् भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तद्भण्यते दशधेति गाथासमासार्थः ।। अवयवार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनात्य शेषभेदव्याचिख्यासयाऽऽह
[भा.१८९] दव्वे सच्चित्ताई ३ आउअसद्दव्वया भवे ओहे ४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org