SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२२ आवश्यक मूलसूत्रम्-१-१/२ - नेरइयाईण भवे ५ तब्भव तत्थेव उववत्ती ६॥ वृ. 'द्रव्य' इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद्रव्यजीवित-मिति, द्विपदादिद्रव्यस्य चान्ये, उक्तं द्रव्यजीवितं, 'आउयसद्दव्वया भवे ओहे'त्ति आयुरिति प्रदेशकर्म तद्रव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेदोघ इति द्वारपरामर्शः ओघजीवितं, सामान्यजीवितमित्यर्थः, इदं चाङ्गीकृत्य यदि परं सिद्धा मृताः, न पुनरन्ये कदाचन इत्युक्तमोघजीवितं, 'नेरइयाईण भवेत्ति नारकादीनामिति, आदिशब्दात् तिर्यङ्नरामरपरिग्रहः, भव इति द्वारपरामर्शः, स्वभवे स्थितिर्भवजीवितमिति, उक्तं भवजीवितं, 'तब्भव तत्थेव उववत्ति'त्ति तस्मिन् भवे जीवितम् तद्भवजीवितं, इदं चौदारिकशरीरिणामेव भवति, यत आह-तत्रैवोपपत्तिः, तत्रैवोपपात इत्यर्थः, भवश्व तदायुष्कबन्धस्य प्रथमसमयादारभ्य यावच्चरमसमयानुभवः, स चौदारिकशरीरिणां तिर्यङ्मनुष्याणां, तद्भवोपपत्तिमागतानां तद्भवजीवितं भवति, ननु च भवजीवितमनन्तरं चतुर्दा वर्णितं नारकादिगतिसमापनानां याऽवस्था, तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिः यथास्वमभाधासहिता भवजीवितम्, इह तु तदाभवजीविते आबाधोनिका कर्मस्थितिः, तद्भवोदयात् प्रभृति कर्मनिषेकः तद्भवजीवितमिति महान् विशेषः, तत् किमर्थमौदारिकाणामेव ?, उच्यते ?, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते, तेन च गर्भकालेन सहैव तद्भजीवितं, वैक्रियशरीरिणां तूपपातादेव कालान्तराव्यवहितं जन्मेति जीवित स्वाबाधाकालसहितमितिकृत्वा तद्भवजीवितमौदारिकाणामेव सुप्रतिपादमिति, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः । उक्तं तद्भवजीवितं । नि. (१०४४) भोगंमि चक्किमाई ७ संजमजी' तु संजयजनस्स ८ । जस ९ कित्ती अभगवओ १० संजमनरजीव अहिगारो ॥ - वृ. भोगंमित्ति द्वारपरामर्शः, भोगजीवितं च चक्रवादीनाम्, अदिशब्दाबलदेववासुदेवादिपरिग्रहः, उक्तं च भोगजीवितं, 'संजमजीयं तु संजयजणस्स'त्ति संयमजीवितं तु 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितं, 'जसकित्ती य भगवओ'त्ति यशोजीवितं भगवतो महावीरस्य, कीर्तिजीवितमपि तस्यैव, अयं चानयोर्विशेषः-दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः' इति, अन्येत्विदमेकमेवाभिदधति, असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षतो गृह्णन्तीति, “संजमनरजीव अहिगारो'त्ति-संयमनरजीवितेनेहाधिकार इति गाथार्थः ॥ यावजीवता चे ‘जीव प्राणधारण' इत्यस्याव्ययीभाव समासे 'यावदवधारण' इत्यनेन निवृत्ते भावप्रत्यय उत्यादिते यावज्जीवं भावः षष्ट्या 'व्ययादाप्सुपः इति सुपलुक्, तस्य ‘भावस्त्वतला' विति तलि स्त्रीलिङ्गता यावज्जीवता तया यावज्जीवतया, तत्रालाक्षणिकवर्णलोत् 'जावजीवाए' इति सिद्धम्, अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तयेत्यलं प्रसङ्गेन, तिस्त्रो विधा यस्य योस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगं, त्रिविधनैव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy