SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२० आवश्यक मूलसूत्रम्-१-१/२ एवं व्युत्पत्त्यर्थप्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयन्नाह-'एत्थ उ'इत्यादि, अत्र तु 'क्षायोपशमिक' इति क्षायोपशमिकभावसर्वेण अधिकारः, अवतार उपयोग इत्यर्थः, ‘अशेषसर्वेण च' निरवशेष-सर्वेण चेति गाथार्थः । व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्या वयवव्या-चिख्यासयाऽऽहनि. (१०३८) कम्ममवजं जं गरिहअिंति कोहाइणो व चत्तारि । सह तेन जो उ जो पञ्चक्खाणं इवइ तस्स ॥ वृ- 'कर्म' अनुष्ठानमवद्यं भण्यते, किमविशेषेण ?, नेत्याह-'यद् गर्हितम्' इति यन्निन्द्यमित्यर्थः, क्रोधादयो वा चत्वारः, अवद्यमिति वर्तते, सर्वावद्यहेतुत्वात् तेषां कारणे कार्योपचारात्, सह तेन-अवद्येन 'यस्तु योगः' य एव व्यापारः असौ सावध इत्युच्यते, 'प्रत्याख्यानं'निषेधलक्षणं भवति तस्य' सावधयोगस्य, पाठान्तरं वा-'कम्मं वजं जंगरहियं तिा इह तु 'वृजी वर्जने'इत्यस्य वर्जनीयं वयं त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरं सह वर्षेन सवय॑ः प्राकृते सकारस्य दीघदिशात् सावजमिति गाथार्थः ॥ अधुना योगोऽभिधीयते, स च द्विधा-द्रव्ययोगो भावयोगश्च, तथा चाऽऽहनि. (१०३९) दब्बे मनवयकाए जोगा दव्वा दुहाउ भावंमि । जोगा सम्मत्ताईं पसत्य इअरो उ विवरीओ ॥ दृ- 'द्रव्य' इति द्वारपरामर्शः, ‘मनवइकाए जोगा दव्वे' त्ति मनोवाक्काययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति-जीवेनागृहीतानि गृहीतानि वा स्वव्यापारावप्रवृत्तानि द्रव्ययोग इति, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, 'दुहा उ भावंमि'त्ति द्विधैव द्विप्रकार एव, 'भाव' इति भावविषयः 'जोगो'त्ति योगोऽधिकृतः-प्रशस्तोऽप्रशस्तश्च, तत्र सम्मत्ताई पसत्य'त्ति सम्यक्त्वादीनाम्, आदिशब्दाद् ज्ञानचरणपरिग्रहः, प्रशस्तः युज्यतेऽनेन करणभूतेनाऽऽत्माऽपवर्गेणेतिकृत्वा, 'इयरो उ विवरीओ'त्ति इतरस्तु मिथ्यात्वादियोगः, 'विपरीत' इत्यप्रशस्तो वर्तते, युज्यतेऽनेनाऽऽत्यमाऽष्टविधेन कर्मेणेतिकृत्वाऽयं गाथार्थः ॥ सावधं योगमिति व्याख्यातौ सूत्रावयवाविति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा उत्तमपुरुपैकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्ये ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिङ् व्यक्तायां वाचि प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारं नामस्थापना-द्रव्यक्षेत्रातीच्छाभावभेदभिन्नमिति, तत्र च नामस्थापने क्षुण्णत्वादनात्य द्रव्यप्रत्याख्यानादि प्रतिपादयन्नाहनि. (१०४०) दव्वंमि निण्हगाई ३ निव्विसयाई अहोइ खित्तंमि ४ । भिक्खाईणमदाणे अइच्छ ५ भावे पुणो दुविहं ६ ॥ वृ-द्रव्यमिति द्वारपरामर्शः, 'निण्हगाइ'त्ति निवादिप्रत्यख्यानम्, आदिशब्दाद् द्रव्ययोद्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानमिति, 'निव्विसयाइण य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy