SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१ - [ नि. १०३७] ४१९ सम्पूर्णमङ्गुलि द्रव्यसर्वं तदेव देशोनं द्रव्यमसर्व, तथा देशः पर्व तत्सम्पूर्व देशसर्वम् पर्वैकदेशः देशासर्वम्, एवं द्रव्यसर्वम् । अथाऽऽदेशसर्वमुच्यते- आदेशनम् आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते - सर्वं घृतं भुक्तं वा, प्रधानऽप्युचारः, यथा ग्रामप्रधानेषु पुरुषेषु गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र प्रधानपक्षमेवाधिकृत्याऽऽह ग्रन्थकारः - 'आएस सव्वगामी' त्ति आदेशसर्वं सर्वो ग्रामो गत इत्याघात इति वेति क्रियाभावनोक्तैव । एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तत्राऽऽह - 'निस्सेसे सव्वगं दुविहं' ति निरवशेषसर्व ‘द्विविधं’ द्विप्रकारं सर्वापरिशेषसर्व तद्देशापरिशेषसर्वं चेति गाथार्थः । अत्रोदाहरणमाह - [भा. १८६] अनिमिसिणो सव्वसुरा सव्वापरिसेससव्वगं एअं १ । तसापरिसेसं सव्वे काला जहा असुरा २ || वृ- ‘अनिमेषिणः सर्वसुराः’अनिमिषनयनाः सर्वे देवा इत्यर्थः, सर्वापरिशेषसर्वमेतत्, यस्मान्न कश्चिद्देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तथा तद्देशापरिशेषमिति तद्देशपरिशेषसर्वं सर्वे काला यथा असुरा इति इयमत्र भावना - तेषामेव देवानां देश एको निकायः असुराः, ते च सर्वं एवासितवर्णा इति गाथार्थः ॥ सर्वधत्तसर्वप्रतिपादनायाऽऽह [भा. १८७] सा हवइ सव्वघत्ता दुपडोआरा जिआ य अजिआ य । दव्वे सव्वघडाई सव्वद्धत्ता पुणो कसिणं ॥ वृ- सा भवति 'सव्वधत्ता' इत्यत्र सर्वं जीवाजीवाख्यं वस्तु धत्तं निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु 'दधातेही' ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः, अथवा धत्त इति डित्थवदव्युत्पन्न एव यच्छाशब्दः, अथवा सर्वं दधातीति सर्वधं निरवशेषवचनं सर्वधमात्तं-आगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, एवमपि निष्ठान्तस्य पूर्वनिपातः, 'जातिकालसुखादिभ्यः परवचनमिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्वं तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता 'दुपडोयार' ति द्विप्रकारा - जीवाश्चाजीवाश्च, यस्मात् यत् किञ्चनेह लोकेऽस्ति तत् सर्वं जीवाश्चाजीवाश्च न ह्येतद्व्यतिरिक्तमन्यदस्ति, अत्राऽऽह - द्रव्यसर्वस्य सर्वधत्तासर्वसय च को विशेष इति ?, अयमभियप्रायः द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, 'दव्वे सव्वघडाई' इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, आदिशब्दादङ्गुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृतस्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः । अधुना भावसर्वमुच्यते - [भा. १८८] भावे सव्वोदइ ओदयलक्खणओ जहेव तह सेसा । इत्थ उ खओवसमिए अहिगारोऽसेससव्वे अ || वृ- 'भाव' इति द्वारपरामर्शः, सर्वो द्विपकारोऽपि शुभाशुभभेदेन औदयिकः- उदयलक्षणः कर्मोदयनिष्पन्न इत्यर्थः यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व एवौपशमिकः, कर्मणां क्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिकः, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणामिकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy