SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पीठिका- [नि.४६]. भवति-नारकाधारो,योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः । एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराहनि. (४७) चत्तारि गाउया, अछुट्टाइं तिगाउया चेव । अड्डाइज्जा दुन्नि य, दिवड्डमेगं च निरएसु॥ वृ-तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंखयमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिदं-'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थनि, अर्धं चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शर्कराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गव्यूतानि त्रिगव्यूतं, एवं सर्वत्र योज्यं यावन्महातमः प्रभाधारनरके उत्कृष्टावधिक्षेत्रं गव्यूतं, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक इत्यादौ जात्यपेक्षमेकवचनं, अनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्धं तृतीयस्य अर्धतृतीयानि, द्वे च, अधिकमर्ध यस्मिन् तद् अध्यर्धम् । आह-कुतः पुनरिदं ?, सामान्येन प्रतिपृथिव्याधारनरकं उत्कृष्टमवधिक्षेत्रमुक्तं चत्वारि गव्यूतानि' इत्यादि, अर्धगव्यूतोनं जघन्यमित्यवसीयते ? उच्यते, “रयणप्पभापुढविनेरइयाणं भंते ! केवइयं खित्तं ओहिणा जाणति पासंति? गोयमा ! जहन्नेणं अटुट्ठाई गाउयाई उक्कोसेणं चत्तारि, एवं जाव महातमपुढविनेरइयाणं ? जहन्नेणं अद्धगाउयं उक्कोसेणं गाउयं", आह-यद्येवं 'गाऊ जहन्नमोही नरएसुतु' इत्येतद्याहन्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयम्उत्कृष्टानामेव सप्तानामपि रत्नप्रभाधवधीनां गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः ॥ एवं नारकसंबन्धिनो भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसंबन्धिनः प्रतिपिपादयिषुरिदं गाथा त्रयं जगादनि. (४८) सक्कीसाणा पढम, दुचं च सणंकुमारमाहिंदा । तचं च बंभलंतग, सुक्कसहसारय चउत्थीं ॥ वृ-शक्रश्चेशानश्च शक्रशानौ तत्र 'शक्रेशानाविति' शक्रेशानोपलक्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा 'द्वितीयां च' पृथिवीमित्यनुवर्तते, 'सनत्कुमारमाहेन्द्राविति' सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते,ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्पनिवासिनो विबुधाः सामानिकादयः पश्यन्ति, तथा शुक्रसहस्रारसुरनाथोपलक्षिताः खल्पवन्येऽपि तत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थः। नि. (४९) आनयपानयकप्पो, देवा पासंति पंचमिं पुढवीं । तं चेव आरणच्चुय ओहीनाणेण पासंति ॥ वृ-आनतप्राणतयोः कल्पयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वी, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदं, विमलतरा बहुतरां चेति गाथार्थः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy