________________
३४
आवश्यक मूलसूत्रम्-१.
इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरुलघु पश्यन्नपि न गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि, तथ मनोद्रव्यविदस्तेष्वेव दर्शनं नान्येष्वंतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति। अथवा एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात्, चशब्दात् गुरुलघुनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषविषयत्वमाविष्कृतं भवति, तथा चास्यैव नियमार्थं 'रूपगतं लभते सर्वं' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्वं रूपगतं, नान्यद् इति, अलं प्रसङ्गेनेति गाथार्थः ॥ एवं परमावधेर्द्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाहनि. (४५) परमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा ।
रूवगयं लहइ सव्वं, खित्तोवमिअं अगनिजीवा ।। वृ-परमश्वासाववधिश्च परमावधिः, अवध्यवभितोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि लोकमात्राणि, खण्डानीति गम्यते, लभत इति संबन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो 'रूपगतं' मूर्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति ‘सर्वं' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु वक्ष्यमाणाँस्तत्पर्यायान् इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना याह-उपमानं उपमिातं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवतिउत्कृष्टावधिक्षेत्रोपमानं, 'अग्निजीवाः' प्रागभिहिता एवेति, आह-'रूपगतं लभते सर्वं' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्दव्यपरिमाणमुक्तं, इह तु रूपगतं लभते सर्वं' इति क्षेत्रकालद्वयविशेषणं, एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणी-लक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्य, रूपिद्रव्यनिबन्धनत्वाचावधिज्ञानस्येति गाथार्थः । एवं तावत् पुरुषानधिकृत्य क्षायोपशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराहनि. (४६) आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु ।
. गाउय जहन्नमोही, नरएसु उ जोयणुक्कोसो ॥ वृ-तत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहाराश्च तेजश्च आहारतेजसी तयोलाभ इति समासः, लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरं, इदमत्र हृदयं - तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः, क? नरान् कायन्तीति नरकाः, कै गैरै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org