SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ___ आवश्यक मूलसूत्रम्-१ नि. (५०) छट्टि हिटिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला । संभिन्नलोगनालि, पासंति अनुत्तरा देवा ।। वृ- लोकपुरुषग्रीवास्थाने भवाानि ग्रैवेयकानि विमानानि, तत्र अधस्त्यमध्य-मग्रैवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः, ते हि षष्ठी पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमी च पृथिवीमुपरितनग्रैवयकनिवासिन इति, तथा 'संभिन्नलोकनाडी' चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एकेन्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह-'देवाः' । एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थः॥ एवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेव दर्शयन्नाहनि. (५१) एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुअअरं उवरिमगा, उड्टुं सगकप्पथूभाई॥ वृ- ‘एतेषां शक्रादीना, संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यग, द्वीपाश्चजम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्-असंख्येयद्वीपोदधिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वं स्वकल्पस्तूपाद्येव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः ।। इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाहनि. (५२) संखेज्जजोयणा खलु, देवाणं अद्धसागरे ऊने । तेन परमसंखेजा, जहन्नयं पंचवीसं तु ॥ वृ-संख्येयानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबन्धमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । अर्धसारोपमन्यून एव आयुष सति, 'ततः परं' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामिति वर्तते, ‘पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्त्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिन्नअलोगनालिं, पासंति अनुत्तरा देवा' इत्यलमतिविस्तरेणेति गाथार्थः ॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शयन्नाहनि. (५३) उक्कोसो मनुएसुं, मनुस्सतिरिएसु य जहनो य । उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई॥ कृ-द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुसयाश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्यः, चशब्द एवकारार्थः, तस्य चैवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy