________________
अध्ययनं-१ - [नि.९२४]
३५७ हिअयं अनुम्मयुअंतो विसुत्तियावारओ होइ॥ वृ-अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम्, तत्र धन्याः-ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम्-आचरतां, किम्? -'हृदयं' चेतः 'अनुन्मुञ्चन्' अपरित्यजन्, हृदयादनपगच्छन्नित्यर्थः, विनोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोच्यते, तद्वारको भवति, धर्मध्यानकालम्बनतां करोतीति गाथार्थः ॥ नि. (९२५) अर्हन्नमस्कार एवं खलु वण्णिओ महत्थुत्ति ।
जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । वृ-अर्हन्नमस्कार एवं खलु वर्णितो 'महार्थ' इति महानर्थो यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्ग्राहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो मरणे प्राणत्यागलक्षणे उपाग्रे-समीपभूते ‘अभिक्षणम्' अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह च भाष्यकार:
"जलणाइभए सेसं मोत्तुंऽप्पेगरयणं महामोल्लं । जुहि वाऽइभए घेप्पइ अमोहसत्यं जह तहेह ॥१॥ मोत्तुंपि बारसंगं स एव मरणंमि कीरए जम्हा । अरहंतनमोक्कारो तम्हा सो बारसंगत्यो ॥२॥
सव्वंपि बारसंगं परिणामविसुद्धिहेउमेत्तायं । तक्कारणभावाओ किह न तदत्यो नमोक्कारो ?॥३॥ न हु तंमि देसकाले सक्को बारसविहो सुयक्खंधो । सब्बो अनुचिंतेण धंतंपि समत्थ चित्तेणं ॥४॥ तप्पणईणं तम्हा अनुसरियव्वो सुहेण चित्तेणं ।
एसेव नमोक्कारो कयन्नुतं मन्नमाणेणं ॥५॥" इति गाथार्थः ।। उपसंहरन्नाहनि. (९२६) अरिहंतनमुक्कारो, सव्वपावप्पणासणो ।
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ कृ-किंबहुना?, इहार्हन्नमस्कारः, किम् ?-सर्वपापप्रणाशनः, तत्र पांशयतीति निपातनात् पापं, पिबति वा हितमिति पापम्, औणादिकः पः प्रत्ययः, सर्वम्-अष्टप्रकारमपि कर्म-पापं जातिसामान्यापेक्षया, उक्तं च-पापं कर्मैव तत्त्वत' इत्यादि, तप्रणाशयतीति सर्वपापप्रणाशनः, मङ्गलानां च ‘सर्वेषां नामादिलक्षणानां 'प्रथम' इति प्रधानं प्रधानार्थकारित्वात्, अथवा पञ्चामूनि भावमङ्गलान्यर्हदादीनि, तेषां प्रथमम्-आद्यमित्यर्थः, ‘भवति मङ्गल' मिति संपद्यते मङ्गलमिति गाथार्थः ॥ उक्तस्तावदहन्नमस्कारः, साम्प्रतं सिद्धनमस्कार उच्यते, तत्र सिद्ध इति कः शब्दार्थः?, उच्यते-'षिधु संराद्धौ' 'राध साध संसिद्धौ' 'षिधू शास्त्रे माङ्गल्ये चेति, सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः-परिनिष्ठितो न पुनः साधनीयः सिद्धौदनवत् स सिद्ध इत्यर्थः, स च सिद्धः शब्दसामान्याक्षेपतः, अर्थतस्तावच्चतुर्दशविधः, तत्र नामस्थापनाद्रव्यसिद्धान् व्युदस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org