________________
३५६
आवश्यक मूलसूत्रम्-१-१/१
एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति ?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपानार्थमुपन्यास इति गाथार्थः। साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्तने, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, नि. (९२०) अट्ठविहंपिय कम्मं अरिभूअं होइ सव्वजीवाणं ।
तं कम्ममरिं हंता अरिहंता तेन वुच्चंति ॥ वृ- 'अष्टविधमपि' अष्टपकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चाव धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कर्मैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां' सर्वसत्त्वानामनवबोधदिदुः खहेतुत्वादिति भावः, पश्चाद्ध पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ॥ अथवा - नि. (९२१) अरिहंति वंदननमंसणाई अरिहंति पूअसक्कारं ।
सिद्धिगमनं च अरिहा अरहंता तेन वुचंति । वृ- ‘अर्ह पूजायाम्' अर्हन्तीति ‘पचाचद्यचू' कर्तरि अर्हाः, किमर्हन्ति ?-वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारं, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा सिद्धिगमनं चाहन्ति' सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति च-'इह बोंदि चइत्ता णं तत्थ गंतूण सिज्झइ' तद्गमनं च प्रत्यर्हा इति, अरहंता तेन वुच्चंति' प्राकृतशैल्या अस्तेिनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः॥ नि. (९२२) देवासुरमनुएसुं अरिहा पूओ सुरुत्तमा जम्हा।
___ अरिणो हंता रयं हंता अरिहंता तेन वुच्चंति ।। वृ. देवासुरमनुजेभ्यः पूजामर्हन्ति-प्राप्नुवन्ति तद्योग्यत्वात्; सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरनाह-'अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥
इदानीममोघताख्याप-नार्थमपान्तरालिकं नमस्कारफलमुपदर्शयतिनि. (९२३) अरहंतनमुक्कारो जीवं मोएइ भवसहस्साओ।
भावेण कीरमाणो होइ पुणो बोहिलाभाए॥ वृ-अर्हतां नमस्कारः अर्हनमस्कार, इहार्हच्छब्देन बुद्धिस्थाहदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमः शब्द एव, ‘जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः?-भवसहस्त्रेभ्यः, 'भावेन उपयोगेन क्रियमाणः इह च सहस्त्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रर्थदनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोच्यतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय' बोधिलाभार्थं, बोधिलाभश्चचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः ॥ तथा चाह
नि. (९२४) अरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org