SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ नमस्कारः - [नि.८८४] 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते || १ || ' ३२९ कलुषं वा द्रुहिलं, येन पुण्यपापयोः समताऽऽपाद्यते, यथा- 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इत्यादि ६, 'निःसारं' परिफल्गु वेदवचनवत् ७, वर्णादिभिरभ्यधिकम् अधिकं ८, तैरेव हीनम् - ऊनम् ९, अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दोः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनम् - ऊनं यथा - अनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वादित्यादि ८-९ शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, तत्र शब्दपुनरुक्तम् - इन्द्र इन्द्र इति, अर्थपुनरुक्तम् - इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, यथा-पीनो देवदत्तो दिवा न भुङ्क्ते रात्रौ भुङ्ग इति स पुनरुक्तमाह १०, 'व्याहतं ' यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्त, कर्ता नास्ति च कर्मणा' मित्यादि ११, 'अयुक्तम्' अनुपपत्तिक्षमं, यथा'तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादि १२, 'क्रमभिन्नं' यत्र यथासङ्ख्येमनुदेशो न क्रियते, यथा 'स्पर्शनरसनघ्राणचक्षुः श्रोत्राणामर्थाः स्पर्शरसगन्धवर्णशब्दा' इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, 'वचनभिन्नं' वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताः इत्यादि १४, विभक्तिभिन्नं विभक्तिव्यत्यय, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह १५, लिङ्गभिन्नं लिङ्गव्यत्ययः, यथेयं स्त्रीति वक्तव्येऽयं स्त्रीत्याह १६, 'अनभिहितम्' अनुपदिष्टं स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं वा वैशेषिकस्य, प्रधानपुरुषाभ्यामभ्यधिकं साङ्ख्यस्य, चतुः सत्यातिरिक्तं शाक्यस्येत्यादि १७, अपदं पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभिधानं यथाऽऽर्यापदे वैतालीयपदाभिधानं १८, 'स्वभावहीन' यद्वस्तुनः स्वभावतोऽन्यथावचनं, यथा शीतोऽग्निर्मूर्तिमदाकाशमित्यादि १९, 'व्यवहितम् ' अन्तर्हितं, यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतो ऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि २०, कालदोषः अतीतादिकालव्यत्यः, यथा रामो वन प्राविशदिति वक्तव्ये विशतीत्याह २१, यतिदोषः - अस्थानविच्छेदः तदकरणं वा, २२, 'छविः' अलङ्कारविशेषस्तेन शून्यमिति २३, ‘समयविरुद्धं च ' स्वसिद्धान्तविरुद्धं यथा साङ्ख्यस्यासत् कारणे कार्य सद् वैशेषिकस्येत्यादि २४, वचनमात्रं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् २५, 'अर्थापत्तिदोषः' यत्रार्थादनिष्टापत्तिः, यथा 'ब्राह्मणो न हन्तव्य' इति, अर्थादब्राह्मणघातापत्तिः २६, 'असमासदोषः ' समासव्यत्ययः, यत्र वा समासविधौ सत्यसमासवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुषे समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणं यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि २७, 'उपमादोषः' हीनाधिकोपमानाभिधानं यथा मेरुः सर्षपोपमः, सर्षपो मेरुसमो बिन्दुः समुद्रोपम इत्यादि २८, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानं, समुद्रावयवानां चाभिधानमित्यादि २९, 'अनिर्देशदोषः ' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदन पचतीति वक्तव्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy