________________
३३०
आवश्यक मूलसूत्रम्-१/१
पचतिशब्दानभिधानं ३०, ‘पदार्थदोषः' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाऽऽश्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोषः' विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२।
एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्र तदिति वाक्यशेषः, 'द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छब्दनिर्देशो गम्यते ॥ अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाःनि. (८८५) निद्दोसं सारवंतं च हेउजुत्तमलंकियं ।
उवनीयं सोवयारं च मियं महुरमेव य॥ वृ-'निर्दोषं दोषमुक्तं सारवत्' बहुपर्यायं, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम्, 'अलङ्कृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहृतं, “सोपचरम्' अग्राम्याभिधानं, 'मितं' वर्णादिनियतपरिमाणं, 'मधुरं श्रवणमनोहरम् । अथवाऽन्ये सूत्रगुणाःनि. (८८६) अप्पक्खरमसंदिद्धं सारवं विस्सओमुहं ।
अत्योभमणवजं च सुत्तं सव्वण्णुभासियं ॥ वृ-'अल्पाक्षरं मिताक्षर, सामायिकाभिधानवत्, ‘असंदिग्धं सैन्धवशब्दवल्लवणघोटकाद्यनेकार्थसंशयकारिन भवति, ‘सारवत्' बहुपर्यायं, 'विश्वतोमुखम्' अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, प्रतिमुखेमनेकार्थाभिधायकं वा सारवत्, 'अस्तोसकं' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभकाः-निपाताः, 'अनवद्यम्' अगा, न हिंसाभिधायकं
'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वच्नान्यूनानि पशुभिस्त्रिभिः ॥" इत्यादिवचनवत्, एवंभूतं सूत्रं सर्वमज्ञभाषितमिति । ततश्च सूत्रानुगमात् सूत्रेऽनुगतेऽनवद्यमिति निश्चिते पदच्छेदानन्तरं सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः
(अध्ययनं-१) मू. (७) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो (लोए) सव्वसाहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं पढमं हवइ मंगलं।
ततः सूत्रस्पर्शनियुक्तिश्चरमानुयोगद्वारविहिता नयाश्च भवन्ति, समकं चैतदनुगच्छतीति, आह च भाष्यकार:
___ 'सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्खेवो ।
सुत्तप्फासियनिजुत्ती नया य समगं तु वचंति ॥" सूत्रानुगमादीनां चायं विषयः-सपदच्छेदं सूत्रीमभिधाय अवसितप्रयोजनो भवति सूत्रानुगमः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधायेति, तच्च प्रायोनैगमादिनयमतविषयमिति वस्तुतस्तदन्त विन एव नया इति, न चैतत् स्वमनीषिकयोच्यते, यत आह भाष्यकार:
“होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगयो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org